SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ कल्प-सुबो व्या० ८ ॥१५९॥ पिता धनदेवो मौर्यपुत्रस्य तु मौर्य इति, अनिषिद्धं च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिवरणमिति वृद्धाः ॥ (३) । (सव्वे एए समणस्स भगवओ महावीरस्स) सर्वे एते इन्द्र भूत्यादयः श्रमणस्य भगवतो महावीरम्य ( इक्कारसवि गणहरा ) एकादशापि गणधराः कीदृशाः ?- (दुवालसंगिणो) द्वादशाङ्गिन:- आचाराङ्गादिहष्टिदादान्तश्रुतवन्तः स्वयं तत्प्रणयनात्, ( चउद्दस पुब्विणो ) चतुर्दश पूर्ववेत्तारः, द्वादशाङ्गित्वं इत्येतैनैव चतुर्द पूर्वत्वे लब्धे यत्पुनरेतदुपादानं तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थं, प्राधान्यं च पूर्वाणां पूर्व प्रणयनात् अनेक विद्यामन्त्राद्यर्थमयत्वात् महाप्रमाणत्वाच्च द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह - ( संमत्तगणिपिठगधारगा ) समस्तगणिपिटकधारकाः, गणोऽस्यास्तीति गणी-भावाचार्यस्तस्य पिटकमिव-रत्नकरण्डकमिव गणिपिटक - द्वादशाङ्गी, तदपि न देशतः स्थूलभद्रस्येव, किंतु ?, समस्तं सर्वाक्षरसनिपातित्वात् तद्धारयन्ति सूत्रतोऽर्थतश्च ये ते तथा (रायगिहे नगरे) राजगृहे नगरे (मासिएणं भत्तेनं अपाण एणं) | अपानकेन मामिकेन भक्तन- भक्तप्रत्याख्यानेन, पादपोपगमनानशनेन (कालगया जाव सव्वदुक्खप्पहीणा) मोक्षं गतः यावत् सर्वदुःखप्रक्षीणाः (थेरे इंदभूई धेरे अज्जसुहम्मे ) स्थविर इन्द्रभूतिः स्थविर आर्यसुधर्मा च (सिद्धिं गए महावीरे ) मिद्धिं गते महावीरे सति । पच्छा दुन्निवि थेरा परिनिब्बुया ) पश्चाद् द्वावपि स्थविरौ निर्वाण प्राप्तौ तत्र नव गणधरा भगवति जीवत्येव सिद्धाः इन्द्रभूतिसुधर्माणौ तु भगवति निर्वृते निर्वृतौ ॥ (जे इमे अज्जत्ताए समणा निग्गंधा विहरंति ) ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति ( एए णं सव्वे श्रीगौतमादिगणधर स्वरूपम् सू. ४ ॥१५९॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy