________________
कल्प-सुबो
व्या० ७ ॥१५८॥
॥ अथ अष्टमं व्याख्यानं प्रारभ्यते ॥
॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये बाच्ये स्थविरावलीमाह - ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इक्कारम गणहरा हुत्था ) नव गणाः एकादश गणधराश्च अभूवन् ॥ ( १ ) ॥ अथ शिष्यः पृच्छति - ( से केणद्वेणं भंते! एवं वुच्चइ ) तत् केन अर्थेन हेतुना हे भदन्त ! एवं उच्यते ( समणस्स भगवओ महावीरस्स ) श्रमणस्थ भगवतो महावीरस्य ( नव गणा इक्कारस गणहरा हुत्था ) नव गणाः एकादश गणधराश्च अभूवन् अन्येषां गणानां गणधराणां च तुल्यत्वात्, 'जावइआ जस्स गणा तावइआ गणहरा तस्स' इति प्रसिद्धत्वात् ॥ (२) ॥ इति शिष्येण प्रश्ने कृते आचार्य आह - (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( जि इंदभूई अणगारे ) ज्येष्ठः इन्द्रभूतिनामा अनगारः ( गोयमसगुत्तेणं ) गौतमगोत्रः ( पंच समणसयाई वाएइ) पञ्च श्रमणशतानि वाचयति (५०० ) ( मज्झिमे अग्गिभूई अणगारे ) मध्यमोऽग्निभूतिः अनगार. ( पंच समणसयाई बाएइ ) पञ्च श्रमणशतानि वाचयति ( ५०० ) ( कणीअसे बाउ भूई अणगारे ) लघुः वायुभूतिर्नामा अनगारः ( गोयमसगुत्तेणं) गौतम गोत्र : ( पंच समणसयाई बाएइ ) पश्च श्रमणशतानि (५०) वाचयति ( थेरे अज्जवियत्ते ) स्थविरः आर्यव्यक्तनामा. ( भारद्दाए गुत्तेणं ) भारद्वाजगोत्र: ( पंच
श्रीवीरस्थ. गणादि
सू. १-२ ॥ १५८ ॥