________________
कल्प-सुबो
व्या० ७ ॥१५७॥
पटशाटकं परिधापयति सर्वालङ्कारविभूषितं करोति, एवं अन्ये देवा गणधर मुनिशरीराणि स्लपितानि चन्दनानुलितानि सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः शक्रो विचित्रचित्रविराजितास्तिस्रः शिविकाः कारयति, निरानन्दो दीनमना अश्रुमिश्रनेत्रस्तीर्थकुच्छरीरं शिविकायां आरोपयति, अन्ये देवा गणधरमुनिशरीराणि शिविकायां आरोपयन्ति ततः शक्रो जिनशरीरं शिविकाया उत्तार्य चितायां स्थापयति, अन्ये देवा गणधरमुनिशरीराणि स्थापयन्ति, ततः शक्राज्ञया अग्निकुमारा देवा निरानन्दा निरुत्साहा अग्निं ज्वालयन्ति, वायुकुमारा वायुं विकुर्वन्ति, शेषाश्च देवास्तासु चितासु कालागुरुचन्दनादीनि सारदारुणि निक्षिपन्ति, कुम्भशो मधुघृतैस्ताः सिञ्चन्ति, अस्थिशेषेषु च तेषु शरीरेषु शक्रादेशेन मेघकुमारा देवास्तिस्रश्चिता निर्वापयन्ति, ततः शक्रः प्रभोरुपरितनीं दक्षिणां दाढां गृह्णाति ईशानेन्द्र उपरितनीं वामां चमरेन्द्रोऽधस्तनीं दक्षिणां बलीन्द्रोऽधस्तनीं वामां, अन्येऽपि देवाः केऽपि जिनभक्त्या केsपि जीतमिति केऽपि धर्म इतिकृत्वा अवशिष्टानि अङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः शक्रो. रत्नमयानि त्रीणि स्तूपानि कारयति - एकं भगवतो जिनस्य एकं गणधराणां एक शेषमुनीनां तथा कृत्वा च शक्रादयो देवा नन्दीश्वरादिषु द्वीपेषु कृनाष्टाह्निकमहोत्सवाः स्वस्वविमानेषु गत्वा | स्वासु स्वासु सभासु वज्रमयसमुद्गकेषु जिनदाढाः प्रक्षिप्य गन्धमाल्यादिभिः पूजयन्ति ॥
( उस भस्म णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य ( जाव सब्वदुक्खप्पीस्स) यावत् सर्वदुः प्रक्षीणस्य (तिन्नि वामा अद्धनवमा य मासा विता) त्रीणि वर्षाणि माचाष्टौ मामा व्यतिक्रान्ताः
श्रीऋषभदेवनिर्वाणम्
सू. २२७
॥ १५७ ॥