SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ताण तच्चे मासे पंचमो पक्खे महाबहुले) योऽसो शीतकालस्य तृतीयो मासः पञ्चमः पक्षः माघस्य कृष्णपक्षः | तस्स णं माहबहुलस्स तेरसीपक्खेणं) तस्य माघबहुलस्य त्रयोदशीदिवसे ( उपि अट्ठावयसेलसिहरंसि) अष्टापदशैलशिखरस्योपरि (दसहिं अणगारसहस्सेहिं सद्धि) दशभिः अनगारसहस्रैः साई ( चउसमे-18वनिर्वाणम णं भत्तेणं अपाणएणं ) चतुर्दशभक्तपरित्यागाद् उपवासषट्केन अपानकेन-जलरहितेन ( अभीइणा:नक्खत्तेणं सू.२२७ जोगमुवागएणं) अभिजिन्नामके नक्षत्रे चन्द्रयोग उपागते सति (षुव्वण्हकालसमयंसि) पूर्वाहकालसमये (संपलियंकनिसपणे) पल्याङ्कासनेन निषण्णः (कालगए) कालगतः (जाच सम्वदुक्खप्पहीणे) यावत् सर्वदुःखानि प्रक्षीणानि ॥ (२२७)॥ | यस्मिन् ममये स भगवान् सिद्धः तस्मिन् समये चलितासनः शक्रोऽवधिना भगवनिर्वाणं विज्ञायाग्रमहिषीलोकपालादिसर्वपरिवारपरिवृतो यत्र भगवच्छरीरं तत्रागत्य त्रिः प्रदक्षिणीकृत्य निरानन्दोऽश्रुपूर्णनयनो नात्यासन्ने नातिदूरे कृताञ्जलिः पर्युपास्ते, एवं ईशानेन्द्रादयः सर्वेऽपि सुरेन्द्राः कम्पितामना ज्ञातभगवन्निर्वाणाः स्वखपरिवारपरिवृता अष्टापदपर्वते यत्र भगवच्छरीरं तत्रागत्य विधिवत् पर्युपासमानास्तिष्ठन्ति, ततः शको भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवैनन्दनवनाद गोशीर्षचन्दनकाष्ठानि आनाय्य तिस्रश्चिताः कारयति, एकां तीर्थङ्करशरीरस्य, एकां गणधरशरीराणां, एकां शेषमुनिशरीराणां,तत आभियोगिकदेवैः क्षीरोदममु. द्वाजलं आनाययति, ततः शक्रः क्षीरोदजलैस्तीर्थकृच्छरीरं लपयति सरसगोशीर्षचन्दनेनानुलिम्पति हंसलक्षणं HALCCASSGC13
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy