________________
ALS4%
श्रीऋषभस्य परीवारम.
२२३-२२६
%A4%
केवलमुत्पेदे, ततो भगवत्पार्चे गत्वा चिरं विहृत्व भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्र. वत्तिश्रियमनुभूय एकदाऽऽदर्शभवने मुद्रिकाशन्यां स्वाङ्गुली दृष्ट्वाऽनित्यत्वं भावयन् केवलज्ञानमुत्पाद्य दशसहस्रनृपः सार्द्ध देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥
(उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (चउरासीई गणा चउरासीइ गणहरा हत्था) चतुरशीतिः ८४ गणाः चतुरशोतिः ८४ गणधराश्च अभवन् ॥ (२१३)॥ (उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कोशलिकस्य ( उसभसेणपामुक्खाणं) ऋषभसेनप्रमुखाणां (चउरासीइ समणसाहस्सीओ) चतुरशीतिः अमणसहस्राणि (८४०००) (उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥(२१४)।(उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (बंभिसुंदरिपामोक्खाणं) ब्राह्मीसुन्दरीप्रमुखाणां (अजियाणं) आर्यिकाणां (तिन्नि सयसाहस्सीओ) त्रयो लक्षाः (३०००००) (उक्कोसिया अजियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पत् अभवत् ।।(२१५)।। (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (सिजंसपामुक्खाणं समणोवासगाण ) श्रेयांसप्रमुखाणां श्रमणोपासकानां (तिनि सयसाहस्सीओ पञ्च सहस्सा) त्रयः लक्षाः पञ्च सहस्राणि (३०५०००) ( उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पत् अभवत् ॥(२१६)॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (सुभद्दापामुक्खाणं समणोवासियाणं) सुभद्राप्रमुखाणां श्रावि.
CCI
CRA