________________
बाहुबलि
AKASARASH
464955045-5-
| तेति चतुर्विधसङ्घस्थापना ॥ ते च कच्छमहाकच्छवर्जाः सर्वेऽपि तापसाः भगवतः पार्श्व दीक्षां जगृहु:, भरतस्तु ६ शक्रनिवारितमरुदेवीशोकः स्वस्थानं जगाम ॥ अथ भरतश्चकपूजां कृत्वा शुभे दिने प्रयाणं कृत्वा षष्टिसहस्र-18
वर्षेः भरतस्य षट् खण्डानि साधयित्वा स्वगृहमागतः, चक्रं तु बहिरेव तस्थौ, तदा भरतेन तत्कारणानि पृष्टा व्या०७ नियोगिनो जगुः-नवनवतिस्तव भ्रातरो वशे नागता इति तदा भरतेनाष्टनवतिभ्रातृणां मदाज्ञा मान्येति दृत
युद्धम् ॥१५४॥ | मुखेनावाचि, ते सम्भूय किमाज्ञां मन्यामहे उत युद्धं कुर्म इति प्रष्टुं प्रभुपार्श्व गताः, प्रभुणाऽपि वैतालीया
॥१५॥ &ोध्ययनप्ररूपणया प्रतिबोध्य दीक्षिता इति, तदनु बाहुबलिन उपरि दूतः प्रेषि, सोऽपि क्रोधान्धो दप्पोद्धरः सन्
स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावद्युद्धमकरोत्, परं न च हारितः, तदा शक्रेणागत्य | भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टिवाग्मुष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः, तेष्वपि भरतस्य परा
जयो जज्ञे, तदा भरतेन क्रोधान्धेन बाहुबलिनः उपरि चक्रं मुक्तं, परमेकगोत्रीयत्वात्तत्तं न पराभवत् , तदाऽम|र्षवशाद्भरतं हन्तुमना मुष्टिमुत्पाव्य धावन् बाहुबलिरहो पितृतुल्यज्येष्टभ्रातृहननं ममानुचितमेव, उत्पातिता मुष्टिरपि कथं मोघा भवेदिति विचार्य स्वशिरसि तां मुक्त्वा लोच कृत्वा सर्व च त्यक्त्वा कायोत्सर्ग चक्रे, तदा भरतस्तं नत्वा स्वापराध क्षमयित्वा स्वस्थानं गतः, बाहुबलिरहो पर्यायज्येष्ठान् लघुभ्रातृन कथं नमामीति ततो | यदा केवलमुत्पत्स्यते तदैव भगवत्पार्श्वे यास्यामोति विचार्य वर्ष यावत् कायोत्सर्गेणैवास्थात् , वर्षान्ते च | | भगवत्प्रेषिताभ्यां स्वभगिनीभ्यां हे भ्रातर्गजादुत्तरेत्युक्त्वा प्रतिबोधितः स यावत् चरणी उदक्षिपत् तावत्तस्य
A
14-1564
REKA