________________
C+C+
केवलपूजा
मरुदेवी
मोक्षः
PRAKACAAAAE
मानस्य (अणते जाव जाणमाणे पासमाणे विहरइ) अनन्तं केवलमुत्पन्नं यावत् जानन् पश्यंश्च विहरति ॥(२१२)।
एवं च वर्षसहस्रेऽतिक्रान्ते पुरिमतालनाम्नि विनीताशाखापुरे प्रभोः केवलज्ञानं उत्पन्नं, तदैव भरतस्य |चक्रमपि, तदा च विषयतृष्णाया विषमत्वेन प्रथमं तातं पूजयामि उत चक्रमिति क्षणं विमृश्य इहलोकपरलो. कुसुखदायिनि ताते पूजिते केवलमिहलोकफलदायि चक्र पूजितमेवेति सम्यग् विचार्य भरतः प्रत्यह उपालम्भान् ददती च मरुदेवां हस्तिस्कन्धे पुरतः कृत्वा सर्वर्या वन्दितुं ययौ, प्रत्यासन्ने चं समवसरणे मातः ! पश्य स्वपुत्रद्धि इति भरतेन भणिता मरुदेवा हर्षपुलकित्रङ्गी प्रमोदाश्रुपूरैर्निर्मलनेत्रा पभोग्छत्रचामरादिकां प्रातिहार्यलक्ष्मी निरीक्ष्य चिन्तयामास-धिग् मोहविह्वलान्, मर्वेऽपि प्राणिनः स्वाथैः लिह्यन्ति, यन्मम ऋषभदुःखेन रुदत्या नेत्रे अपि हीनतेजसी जाते, ऋषभस्तु एवं सुरासुरसेव्यमान ईदृशीं समृद्धिं भुञ्जानोऽपि मम सुखवातसन्देशमपि न प्रेषयति, ततो धिगिमं स्नेहं, इत्यादि भावयन्त्यास्तस्याः केवलमुत्पन्नं, तत्क्षणाच आयुषः क्षयान्मुक्तिं जगाम, अत्र कविः-पुत्रो युगादीशसमो न विश्वे, भ्रान्त्वा क्षितो येन शरत्सहस्रम् । यदर्जितं केवलरत्नमग्न्यं, स्नेहात्तदेवार्यत मातुराशु ॥१॥ मरुदेवा समा नाम्बा,याऽगात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनूजार्थ, शिवमार्गमपि स्फुटम् ॥ २॥ भगवानपि समवसरणे धर्म अकथयत्, नत्र ऋषभसेनाद्याः पञ्च शतानि भरतस्य पुत्राः, सप्त शतानि पौत्राश्च प्रव्रजिताः, तेषांमध्ये ऋषभसेनादयश्चतुरशीतिर्गणाधराः स्थापिताः, ब्राहम्यपि प्रवव्राज, भरतः पुनः श्रावकः सञ्जातः, स्त्रीरत्नं भविष्यतीति तदा भरतेन निरुद्धा सुन्दर्यपि श्राविका सञ्जाते.
CHANGIN-RICORAKHANCE