SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ कल्प-मुबोव्या०७ ॥२४९॥ द्वासप्ततिः कला ॥१४९॥ प्ततिपुरुषकलाः, लेवादिका द्वासप्ततिः कला.. ताश्चेमाः-लिखितं १ गणितं २ गीतं ३ नृत्यं ४ वायं च ५ पठन ६ शिक्षे च ७। ज्योति ८ श्छन्दो ९ऽलकृति १० व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥ १ ॥ कात्यायनं १४ निघण्टु १५ र्गजतुरगारोहणं १६-१७ तयोः शिक्षा १८ । शस्त्राभ्यासो १९ रस २० मन्त्र २१यन्त्र २२ विष २३ वन्य २४ गन्धवादाश्च २५ ॥ २ ॥ प्राकृत २६ संस्कृत २७ पैशाचिका २८ऽपभ्रंशाः २९ स्मृतिः ३६ पुराण ३१ विधिः ३२ । सिद्धान्त ३३ तर्क ३४ वेदक ६५ वेदा ३६ ऽऽगम ३७| संहिते ३८ तिहासाश्च ३९ ॥ ३ ॥ सामुद्रिक ४० विज्ञाना ४१ s चार्यकविद्या ४२ रसायनं ४३ कपटम् ४४ । | विद्यानुवाददर्शन ४५ संस्कारौ ४६ धूर्त्तशम्बलकम् ४७ ॥ ४॥ मणिकर्म ४८ तरुचिकित्सा ४९ खेचर्य ५०मरीकले ५१न्द्रजालं च ५२ । पातालसिद्धि ५३ यन्त्रक ५४ रसवत्यः ५५ सर्वकरणी च ५६ ॥ ५॥ प्रासादलक्षणं ५७ पण ५८ चित्रोपल ५९ लेप ६. चर्मकर्माणि ६१। पत्रच्छेद ६२ नखच्छेद ६३ पत्रपरीक्षा ६४ वशीकरणम् ६५ ॥ ६॥ काष्ठघटन ६६ देशभाषा ६७ गारुड ६८ योगाङ्ग ६९ धातुकर्माणि ७० । केवलिविधि ७१शकुनरुते ७२ इति पुरुषकला द्विसप्तति याः ॥७॥ अत्र लिखितं हंसलिप्याद्यष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण ब्राम्या उपदिष्टं, गणितं तु एक दश शतं सहस्रं अयुतं लक्षं प्रयुतं कोटिः अर्बुद अर्ज खर्व निखर्व महापद्म शकुः जलधिः अन्त्यं मध्यं पराधं चेति यथाक्रमं दशगुण इत्यादि सङ्ख्यानं सुन्दर्याः वाम| करेण काष्ठकर्मादिरूपं कर्म भरतस्य पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति ॥ . ACC
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy