________________
|पराधं भगवते विज्ञप्य शिक्षा दापयिष्याम इति बुद्धया गच्छन्तः पथि भगवन्तं हस्तिस्कन्धारूढं अभिमुख मागच्छन्तं दृष्टा यथास्थितं व्यतिकरं भगवते न्यवेदयन् , भगवांचाह-अत्र पीठरादिव्यवधानेन भवद्भिर्धान्यादिप्रक्षेपः कार्य इत्युक्त्वा तैरेव मृत्पिण्डं आनाय्य निधाय च हस्तिकुम्भे मिण्ठेन कुम्भकारशिल्पं प्रथमं न्यदर्शयत्, उक्तवांश्च-एवंविधानि भाण्डानि विधाय तेषु पाकं कुरुध्वमिति, भगवदुक्तं सम्यगुपायमुपलभ्य ते तथैव कृतवन्तः, अतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोहकार १ चित्रकार २ तन्तुबाय ३ नापित. शिल्प ४ लक्षणानि चत्वारि शिल्पानि, एतेषां च पञ्चानां मूलशिल्पानां प्रत्येकं विंशत्या भेदैः शिल्पशतं तच्चाचार्योपदेशजमिति ॥ ( २१०)॥
(उसभे अरहा कोसलिए ) ऋषभः अहंन् कौशलिकः ( दक्खे दक्खपइन्ने पडिरूवे आलीणे भहए विणीए) दक्षः दक्षा प्रतिज्ञा यस्य स तथा सुन्दररूपवान् सर्वगुणैरालिङ्गितः सरलपरिणामः विनयवान् (वीसं पुव्वसयसंहस्साई कुमारवासमझे वसित्ता) विंशतिलक्षपूर्वाणि यावत् कुमारावस्थायां उषित्वा (तेवढि पुव्वसयसहस्साई रज्जवासमझे वसइ) त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां वसति (तेवडिं |च पुब्बसयसहस्साई रजवासमझे वसमाणे) त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां च वसन् सन् (लेहाइओ गणियप्पहाणाओ) लिखनं आदौ यासां तास्तथा गणनं प्रधान-श्रेष्ठ यासां तास्तथा, तथा (सउणरूयपज्जवसाणाओ) पक्षिणां शन्दः स पर्यवसाने-प्रान्ते यासां तास्तथा (बावत्तरि कलाओ) एवंविधाः दास
AAAACCOREA
434