________________
( चउसट्ठि महिलागुणे ) चतुःषष्टिः स्त्रीकलाः, ताचेमाः- ज्ञेया नृत्यौ १ चित्त्ये २ चित्रं ३ वादित्र ४ मन्त्र ५तन्त्राश्च ६ । घनवृष्टि ७ फलाकृष्टी ८ संस्कृतजल्पः ९ क्रियाकल्पः १० ॥ १ ॥ ज्ञान ११ विज्ञान १२ दम्भां १३बुस्तम्भा १४ गीत १५ तालयो १६ मनिम् । आकारगोपना १७ ssरामरोपणे १८ काव्यशक्ति १९ वक्रोक्ती २० ॥ २ ॥ नरलक्षणं २१ गज २२ इयवरपरीक्षणे २३ वास्तुशुद्धिलघुबुद्धी २४ । शकुन विचारो २५ धर्माचारो २६ऽञ्जन २७ चूर्णयोर्योगाः २८ ॥ ३ ॥ गृहिधर्म २९ सुप्रसादनकर्म ३० कनकसिद्धि ३१ वर्णिकावृद्धी ३२ । वाक्पाटव ३३ करलाघव ३४ ललितचरण ३५ तैलसुरभिताकरणे ३६ || ४ || भृत्योपचार ३७ गेहाचारो ३८ व्याकरण ३९ परनिराकरणे ४० । वीणानाद ४१ वितण्डावादों ४२ ऽङ्कस्थिति ४३ र्जनाचारः ४४ ॥ ५ ॥ कुम्भभ्रम ४५ मारिश्रम ४६ रत्नमणिभेद ४७ लिपिपरिच्छेदाः ४८ । वैद्यक्रिया च ४९ कामाविष्करणं ५० रन्धनं ५१ चिकुरबन्धः ५२ ।। ६ ।। शालीखण्डन ५३ मुखमण्डने ५४ कथाकथन ५५ कुसुमसुग्रधने ५६ । वरवेष ५७ सर्वभाषाविशेष ५८ वाणिज्य ५९ भोज्ये च ६० ॥ ७ ॥ अभिधानपरि ज्ञाना ६१ ssभरणयथास्थानविविधपरिधाने ६२ । अन्त्याक्षरिका ६३ प्रश्नप्रहेलिका ६४ स्त्रीकलाः चतुःषष्टिः ||८||
( सिसयं च कम्माणं ) कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेव भगवतोपदिष्टं, अत एवानाचार्योपदेशजं कर्म आचार्योपदेशजं च शिल्पमिति कर्मशिल्पयोर्विशेमामनन्ति, कर्माणि च क्रमेण खयमेव समुत्पन्नानि ( तिन्निवि पयाहिआए उषदिसह ) त्रीण्यप्येतानि
चतुष्पष्टि महिलागुणाः