________________
काल्प-मुबोव्या० ७ ॥१४७॥
वंशस्थापना सुनन्दाग्रहादि ॥१४७॥
ASSICALEKHA
अवगन्तव्याः, बाल्यातिक्रमे पुनरग्निपक्काहारभोजिनः, ऋषभस्तु प्रव्रज्यां यावत् सुरानीतोत्तरकुरुकल्पद्रुमफ| लान्यावादितवान् , अथ सञ्जाते फिश्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रजीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामिसमीपं यामीति महतीं इक्षुयष्टिं आदाय नाभिकुलककस्थस्य प्रभोरग्रे तस्थौ, दृष्ट्वा चेक्षु. यष्टि हृष्टवदनेन स्वामिना करे प्रसारिते इक्षु भक्षयसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात् स्वामिनो वंश | इक्ष्वाकुनामा भवतु, गोत्रं अपि अस्य एतत्पूर्वजानां इक्ष्वभिलाषात्कारश्यपनामेति शक्रो वंशस्थापनां कृतवान् ।
अथ किश्चियुगलं मातृपितृभ्यां तालवृक्षाधो मुक्तं, तस्मात्पतता तालफलेन पुरुषो व्यापादिनः, प्रथमोऽयं | अकालमृत्युः, अथ सा कन्या मातापित्रोः स्वर्मतयोः एकाकिन्येव वने चचार, दृष्ट्वा च तां सुन्दरी युगलिकनरा नाभिकुलकराय न्यवेदयन् , नाभिरपि शिष्टेयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां जग्राह, ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनं अनुप्राप्तः, इन्द्रोऽपि प्रथमजिनविवाहकृत्यं अस्माकं जीतमिति अनेकदेवीकोटिपरिवृतः समागत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान् , वधूकृत्यं च द्वयोरपि कन्ययोर्दव्य इति, ततस्ताभ्यां विषयोपभोगिनो भगवतः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मीरूपं युगलं सुमङ्गला बाहुबलिसुन्दरीरूपं युगलं च सुनन्दा प्रसुषुवे, तदनु चैकोनपंचाशत् पुत्रयुगलानि क्रमात् सुमंगला प्रसूतवती ।
(उसमेणं अरहा कोसलिए कामवगुत्तेणं) ऋषभः अर्हन कौशलिकः काश्यपगोत्रीयः (तस्म णं पंच नामधिज्जा
KAR