SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रथमनृपत्वं ४ नगरीनिवे शनम् एवमाहिज्जति )तस्य प्रभोः पञ्च नामधेयानि एवं आख्यायन्ते (तंजहा) तयथा (उसमे इ वा १ पढमराया इ वा २) ऋषभ इति वा १ प्रथमराजा इति वा २ (पढमभिक्खायरे इ वा ३) प्रथमभिक्षाचर इति वा ३ ( पढमजिणे इ वा ४) प्रथमजिन इति वा ४ ( पढमतित्थंकरे इ वा ५) प्रथमतीर्थकर इति ना ५, तब इकारः सवत्र वाक्यालङ्कारे, प्रथमराजा, स चैवं-कालानुभावात् क्रमेण प्रचुरकषायोदयात् परस्परं विवदमानानां युगलिकानां दण्डनीतिस्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वेन हकाररूपैवाभूत् , यशस्विनोऽभिचन्द्रस्य च काले अल्पेऽपराधे हकाररूपा महति च अपराधे मकाररूपा, प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्य मोत्कृष्टापराधेषु क्रमेण हकारमकारधिकाररूपा दण्डनीतयोऽभूवन , एवमपि नीत्यतिक्रमेण ज्ञानादिगुणाधिकं भगवन्तं विज्ञाय युगलिभिर्भगवनिवेदने कृते स्वाम्य-'नीतिमतिक्रमतां दण्डं सर्व राजा करोति, स चाभिषिक्तोऽमात्यादिपरिवृती भवतो'एवं उक्त तैरूचे-अस्माकं अपि ईदृशो राजा भवतु, स्वाम्याह-याचध्वं नाभिकु लकरं राजानं, तैर्याचितो नाभिः-भो भोवतां ऋषभ एव राजा'इत्युक्तवान् , ततस्ते राज्याभिषेकनिमित्तमुदकानयनाय सरः प्रति गतवन्तः, तदा च प्रकम्पितासनः शक्रो जीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिष्क्रियापुरस्सरं भगवन्तं राज्येऽभिषिञ्चति स्म, युगलिकनरास्तु नलिनपत्रस्थितजलहस्ता अलङ्कृतं भगवन्तं निरिक्ष्य विस्मिताः क्षणं विचार्य भगवतः पादयोर्जल प्रक्षिप्तवन्तः, तच्च दृष्ट्वा तुष्टः शक्रोऽचिन्तयत्-अहो विनीता एते पुरुषा इति वैश्रमण आज्ञापितवान् यदिह द्वादशयोजनविस्तीर्णां नवयोजनविष्कम्भां विनीतां नाम्नी नगरी
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy