________________
कल्प. सुवोव्या० १ ॥१२॥
[[हिअयत्ति ] हृदयं यस्याः सा तथा पुनः किंभूता ? (धाराहयकलंब पुप्फगंपिवत्ति) घारया - मेघजलधारया सिक्तं एवंविधं यत्कदम्बतरुकुसुमं तद्धि मेघधारया फुल्लति ततस्तद्वत् [समुस्ससिअरोमकृवा ] समुच्छ्वसितानि उल्ल सितानि रोमाणि कृपेषु यस्याः सा तथा, एवंविधा सती [ सुमिणुग्गहं करेइ २ त्ता ] स्वमानां अवग्रहं स्मरणं करोति, तत्कृत्वा च [ सयणिजाओ अब्भुट्ठेइ ] शय्याया अभ्युत्तिष्ठति [ अन्मुट्ठित्ता ] अभ्युत्थाय [ अतुरिअत्ति ] अत्वरितया - मानसौत्सुक्यरहितया [ अचवलत्ति ] अचपलया-कायचापल्यवर्जितया [ असंभन्ताए ति ] अमम्भ्रान्तया अस्खलन्त्या ( अविलंबिआएत्ति ) विलम्बरहितया [ रायहंससस्सिीए गईए ] राजहंसमहशय गत्या [ जेणेव उसभदत्ते माहणे ] यत्रैव ऋषभदत्तो ब्राह्मणः [ तेणेव उवागच्छइ ] तत्रैवोपागच्छति (उवागच्छित्ता) उपागत्य (उसभदत्तं माहणं) ऋषभदत्तं ब्राह्मणं (जएणं विजएणं बद्धावेइ) जयेन विजयेन वर्धयति आशिषं ददाति, तत्र जयः स्वदेशे विजयः परदेशे ( वद्धावित्ता ) वर्धयित्वा च ( भदासणवरगया ) भद्रासनवरगता, ततश्च (आसत्यत्ति) आश्वस्ता श्रमापनयनेन (वीसत्यत्ति विश्वस्ता क्षोभाभावेन, अत एव (सुहासणवरगयति सुखेन आसनवरं प्राप्ता [ कंरयलपरिग्गहिअं दसनहं ] करतलाभ्यां परिगृहीतं कृतं दश नखाः समुदिता यत्र तं (सिरसावत्तन्ति ) शिरसि आवर्त्तः प्रदक्षिणभ्रमणं यस्य तं एवंविधं ( मत्थए अंजालें कट्टु ) अञ्जलिं मस्तके कृत्वा देवानन्दा ( एवं वयासीति ) एवं अवादीत् ( ५ ) । किं तदित्याह - ( एवं खलु अहं देवाणुप्पि ! ) एवं निश्चयेन अहं हे देवानुप्रिय ! हे स्वामिन् ! ( अज्ज सयणिज्जंसि) अद्य शय्यायां [ सुत्त
ऋषभदत्तायनिवेदनं
सू. ५
॥१२॥