SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 4 तिः राजीला मोक्षः AHARA |च राजीमती प्रभुं नन्तुं रैवतके व्रजंती मार्गे वृष्ट्या बाधिता एकांगुहां प्राविशत् , तस्यां च गुहायां पूर्व प्रविष्टं रथनेमि अजानती सा क्लिन्नानि वस्त्राणि शोषयितुं परितश्चिक्षेप, ततश्च तां अपहसितत्रिदशतरुणीरामणीयको साक्षात् कामरमणीमिव रमणीयां तथा विवसनां निरीक्ष्य भ्रातुर्वैरादिव मदनेन मर्मणि हतः कूललजामुत्सृज्य धीरतामवधीर्य रथनेमिस्तां जगाद-अयि सुन्दरि ! किं देहः, शोष्यते तपसा त्वया । सर्वाङ्गभोगसंयोगयोग्यः सौभाग्यसेवधिः॥१॥ आगच्छ स्वेच्छया भद्रे! कुर्वहे सफलं जनुः । आवामुभावपि प्रान्ते, चरिप्यावस्तपोविधिम् ॥२॥ ततश्च महासती तदाकर्ण्य तं दृष्ट्वा च धृतातधैर्या तं प्रत्युवाच-'महानुभाव ! कोऽयं तेऽभिलाषो नरकाध्वनः १ । सर्व सावद्यमुत्सृज्य, पुनर्वाञ्छन्न लज्जसे ॥ १ ॥ अगन्धनकुले जातास्तिर्यञ्चो ये भुजङ्गमाः। तेऽपि नो वान्तमिच्छन्ति, त्वं नीचः किं ततोऽप्यसि ॥२॥ इत्यादिवाक्यैः प्रतियोधितः श्रीने| मिपावे तददुश्चीर्णमालोच्य तपस्तप्त्वा च मुक्तिं जगाम। राजीमत्यपि दीक्षामाराध्य शिवशय्यामारूढा चिरमा र्थितं शाश्वतिकं श्रीनेमिसंयोगमवाप, यदाहुः-"छद्मस्था वत्सरं स्थित्वा, गेहे वर्षचतुःशतीम् । पञ्चवर्षशतीं राजी, | ययौ केवलिनी शिवम् ॥ १॥ (१७४)॥ (अरहओ णं अरिट्ठनेमिस्स) अर्हतः अरिष्ठनेमेः (अट्ठारस गणा अट्ठारस गणहरा हुत्था) अष्टादश(१८)गणाः अष्टादश गणधराश्च अभवन् ॥(१७५)। (अरहओ णं अरिद्वनेमिस्स) अर्हतः अरिष्ठनेमेः ( वरदत्तपामुक्खाओ) वरदत्तप्रमुखाणि ( अट्ठारस समणसाहस्सीओ) अष्टादश श्रमणानां सहस्राणि ( १८०००) उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥(१७६)। (अर ॐॐॐ
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy