SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ करक-मुवी व्या . ७ श्रीनेमिराजीपूर्वभवा ॥१३८॥ ॥१३८॥ (तस्स णं आसोयबहुलस्स पन्नरसीपक्खेणं ) तस्य आश्विनबद्दलस्य पश्चदशे दिवसे ( दिवसस्स पच्छिमे भाए) दिवसस्य पश्चिमे भागे (उजिंतसेलसिहरे वेडसस्स पायवस्स अहे) उज्जयन्तनामशैलस्य शिखरे वेतसनामवृक्षस्य अधस्तात् ( अट्ठमेणं भत्तेणं अपाणएणं ) अष्टमेन भक्तेन अपानकेन-जलरहितेन (चित्ताहिं नक्खत्तेणं जोगमुवागएणं) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति (झाणंतरियाए वहमाणस्स ) शुक्लध्यानस्य मध्यभागे वर्तमानस्य प्रभोः (अणते जाव जाणमाणे पासमाणे विहरइ ) अनन्तं केवलज्ञानं समुत्पन्नं यावत् सर्वभावान् जानन् पश्यंश्च विहरति, तत्र केवलज्ञान रैवतकस्थे सहस्राम्रवणे समुत्पेदे, तत उद्यानपालको विष्णोर्व्यजिज्ञपत् , विष्णुरपि महद्धर्या भगवन्तं वन्दितुमाययो, राजीमत्यपि तत्रागता, अथ प्रभोर्देशनां निशम्य वरदत्तनृपः सहस्रद्वयनृपयुतो व्रतमाददे, हरिणा च राजमीत्याः स्नेहकारणे पृष्टे प्रभुर्धनवतीभवा|दारभ्य तया सह स्वस्य नवभवसम्बन्धमाचष्टे, तथाहि-प्रथमे भवेऽहं धननामा राजपुत्रस्तदेयं धनवतीनाम्नी मत्पत्नी अभूत् १ ततो द्वितीये भवे प्रथमे देवलोके आवां देवदेव्यो २ ततस्तृतीये भवेऽहं चित्रगतिनामा विद्याधरस्तदेयं रत्नवती मत्पत्नी ३ ततश्चतुर्थे भवे चतुर्थे कल्पे द्वावपि देवौ ४ पञ्चमे भवेऽहं अपराजितराजा ६ एषा प्रियतमा राज्ञी ५ षष्ठे एकादशे कल्पे द्वावपि देवौ ६ सप्तमेऽहं शङ्खो नाम राजा, एषा तु यशोमती राज्ञी ७ अष्टमें अपराजिते द्वावपि देवौ ८ नवमेऽहं एषा राजीमती ९, ततः प्रभुरन्यत्र विहृत्य क्रमात्पुनरपि सारैवतके समवासरत्, तदा च अनेकराजकन्यापरिवृता राजीमती रथनेमिश्च प्रभुपार्श्वे दीक्षां जगृहतुः, अन्यदा AISCOEACC4ACCACACK
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy