SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ताभिर्वाहं उद्घोषितं तथैव जनोक्तिरिति, ततः कृष्णेनोग्रसेनपत्री राजीमती मागिता, लग्नं पृष्टश्च क्रोष्टुकिनामा ज्योतिर्वित् प्राह-वर्षासु शुभकार्याणि, नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य, विवाहस्य तु का विवाहायकथा? ॥१॥ समुद्रस्तं बभाषेऽथ, कालक्षेपोऽत्र नार्हति । नेमिः कथञ्चित् कृष्णेन, विवाहाय प्रवर्तितः ॥२॥ मा|8| 1 गमनं भूद्विवाहप्रत्यूहो, नेदीयस्तद्दिनं वद । श्रावणे मासि तेनोक्ता, ततः षष्ठी समुज्ज्वला॥३॥ततो द्वयोः स्थानयोर्विहिता |विवाहोचिता सामग्री, आसन्ने च क्रोष्टुक्यादिष्ट लग्ने चलितः श्रीनेमीकुमारः स्फारशृङ्गारः प्रजाप्रमोदकरो | रथारूढो धृतातपत्रसारः सश्रीमुद्रविजयादिदशाहकेशवबलभद्रादिविशिष्टपरिवारः शिवादेवीप्रमुखप्रमदाजेगीयमानधवलमङ्गलविस्तारः पाणिग्रहणाय, अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गल भरं धवस| मन्दिरं इति पृष्टवान् , ततः सोऽगुल्यग्रेण दर्शयन् इति जगाद-उग्रसेननपस्य तव श्वशुरस्यायं प्रासाद इति, इमे च तव भार्याया राजीमत्याः सख्यौ चन्द्राननामृगलोचनाभिधाने भिथो वार्त्तयतः, तत्र मृगलोचना विलोक्य चन्द्राननां प्राह-हे चन्द्रानने ! स्त्रीवर्गे एका राजीमत्येव वर्णनीया यस्याः अयमेतादृशो वरः पाणिं ग्रहीष्यति, चन्द्राननाऽपि मृगलोचनामाह-राजीमतीमद्भुतरूपरम्यां, निर्माय धातापि यदीहशेन । वरेण नो योजयति प्रतिष्ठां, लभेत विज्ञानविचक्षणः काम् ? ॥१॥ इतश्च-तूर्यशब्दमाकर्ण्य मातृगृहात् राजीमती | सखीमध्ये प्राप्ता, हे सख्यौ ! भवतीभ्यामेकाकिनीभ्यामेव साडम्बरमागच्छन् वरो विलोक्यते, अहं तु विलोकयितुं न लभेयं इति बलात्तदन्तरे स्थित्वा नेमि आलोक्य साश्चर्य चिन्तयति-किं पातालकुमारः किं वा मकर
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy