SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ CHHAHAKAKAKAAKAAR क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ॥२॥ ततो बलभ-10 द्रेण सहालोचयति-किं विधास्ये?, नेमिस्तु राज्यलिप्सुबलवांश्च, तत आकाशवाणी प्रादुरभूद्-अहो हरे ! पुरा जलक्रीडा नमिनाथेन कथितमासीद् यदुत द्वाविंशस्तीर्थकरो नेमिनामा कुमार एवं प्रव्रजिष्यतीति श्रुत्वा निश्चिन्तोऽपि निश्चयार्थ नेमिना सह जलक्रीडां कर्तुं अन्तःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः, तत्र च-प्रणयतः परिगृह करे जिन, हरिरवेशयदाशु सरोऽन्तरे । तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्खजलैघुसृणाविलैः ॥ १॥ तथा | रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान्-यदयं नेमिनिःशङ्क क्रीडया पाणिग्रहाभिमुखीकार्यः, ततश्च ता: अपि-काश्चित् केसरसारनीरनिकरैराच्छोटयन्ति प्रभु, काश्चिद् बन्धुरपुष्पकन्दुकभरैर्निनन्ति वक्षःस्थले । काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विद्धयन्ति नर्मोक्तिभिः, काश्चित्कामकलाविलासकुशला विस्मापयाश्चक्रिरे | ॥१॥ ततश्च-तावत्यः प्रमदाः सुगन्धिपयसा स्वर्णादिशृङ्गी शं, भृत्वा तज्जलनिर्झरैः पृथुतरैः कर्तुं प्रभु व्याकुलम् । प्रावर्तन्त मिथो इसन्ति सततं क्रीडोल्लसन्मानसास्तावयोमनि देवगीरिति समुद्भता श्रुता चाखिलैः॥१॥ मुग्धाः स्थ प्रमदा यतोऽमरगिरौ गीर्वाणनाथैश्चतुःषष्टया योजनमानचक्त्रकुहरैः कुम्भैः सहस्राधिकैः । बाल्येऽपि स्नपितो य एष भगवान्नाभून्मनागाकुलः, कर्तुं तस्य सुयत्नतोऽपि किमहो युष्मामिरीशिष्यते ॥२॥ ततो नेमिरपि हरिं ताश्च सर्वा जलैराच्छोटयति स्म कमलपुष्पकन्दुकैश्च ताडयति स्म इत्यादि सविस्तरं जलक्रीडां कृत्वा तटमागत्य नेमि स्वर्णासने निवेश्य सर्वा अपि गोप्यः परिवेष्टय स्थिताः, तत्र A4%9AHABAR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy