________________
(तेसीइं इंदिआई ) व्यशीर्ति अहोरात्रान् (छउमत्थपरिआयं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा ( देसू.. णाई सत्तरि वासाइं ) किञ्चिदूनानि सप्ततिं वर्षाणि ( केवलिपरिआयं पाउणित्ता ) केवलिपर्यायं पालयित्वा ( पडिपुन्ना सत्तरि वासाइं ) प्रतिपूर्णानि सप्ततिं वर्षाणि ( सामन्नपरियायं पाउणित्ता ) चारित्रपर्यायं पालयित्वा ( एक्कं वाससयं सव्वाउयं पालइत्ता ) एकं वर्षशतं सर्वायुः पालयित्वा ( स्वीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( इमीसे ओसप्पिणीए ) अस्यामेव अवसर्पिण्यां ( दूसमसुसमाए बहुबिताए ) दुष्षमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे ) श्रावणशुद्धः (तस्स णं सावणसुद्धस्स अट्टमीपक्खेणं) तस्य श्रावणशुद्धस्य अष्टमीदिवसे (उपि संमे असेल सिहरंसि) उपरि सम्मेतनामकशैलशिखरस्य ( अप्पचउत्तीसहमे ) आत्मना चतुस्त्रिंशत्तमः ( मासिएणं भत्तेणं अपाणएणं ) मासिकेन भक्तेन अपानकेन (विसाहाहिं नक्खत्ते जोगमुवागणं ) विशाखानक्षत्रे चन्द्रयोगं उपागते सति (पुब्वण्हकालसमयंसि ) पूर्वाह्नकालसमये, तत्र प्रभोर्मोक्षगमने पूर्वाह्न एव कालः, 'पुवरत्तावरतकालसमयंसि त्ति कचित्पाठस्तु लेखकदोषान्मतान्तरमेदाद्वा (वग्घारियपाणी ) प्रलम्बित पाणी - हस्तौ येन स तथा, कायोत्सर्गे स्थितत्वात् प्रलम्बितभुजद्वथः, ( कालगए विज्ञकंते जाव सव्वदुक्खप्पहीणे ) भगवान् कालगतः व्यतिक्रान्तः यावत् प्रक्षीणसर्वदुःखः ॥ (१६८) |
( पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (जाव सव्वदुक्खप्पहीणस्स ) यावत्
अगारवासमानादि सू. १६८