SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोव्या० १ ॥१०॥ 15%E0%-54-445 कल्याणकपंचकं सू.१ कुक्षाववतार: सु. ३ ॥१०॥ (तेणं समएकति) तस्मिन् समये (समणे भगवं महावीरेत्ति ) श्रमणो भगवान् महावीरः (जे से गिम्हाणंति) योऽसौ ग्रीष्मकालस्य (चउत्थे मासेत्ति) चतुर्थों मासः (अट्ठमे पक्खेत्ति) अष्टमः पक्षः, कोऽर्थः-(आसाढसुद्धेत्ति) आषाढशुक्लपक्षः (तस्स णं आसाढसुद्धस्सत्ति) तस्य आषाढशुक्लपक्षस्य (छट्ठीपक्खेणंति) षष्ठीरात्री (महाविजयपुप्फुत्तरपवरपुंडरीआओ महाविमाणाओत्ति) महान् विजयों यत्र तन्महाविजयं 'पुप्फुत्तरत्ति | पुष्पोत्तरनामकं 'पवरपुंडरीआओ'त्ति प्रवरेषु-अन्यश्रेष्ठविमानेषु पुण्डरीकमिव-श्वेतकमलमिव अतिश्रेष्ठ इत्यर्थः तस्मात् 'महाविमाणाओ'त्ति महाविमामात् , किंविशिष्टात् ?-(वीसंसागरोपमठिइआओत्ति) विंशतिसागरोपमस्थितिकात्, तत्र हि देवानां विंशतिः सागराणि उत्कृष्टा स्थितिर्भवति, भगवतोऽपि एतावत्येव |स्थितिरासीत्, अथ तस्माद्विमानात् ( आउखएणंति) देवायुःक्षयेण (भवखएणंति) देवगतिनामकर्मक्षयेण (ठिइखएणंति) स्थितिः-वैक्रियशरीरेऽवस्थानं तस्याः क्षयेण-पूर्णीकरणेन (अणन्तरंति) अन्तररहितं (चयं चइत्तत्ति ) च्यवं-च्यवनं कृत्वा (इहेव जम्बुद्दीवे दीवेत्ति) अस्मिन्नेव जम्बूद्वीपनाग्नि द्वीपे (भारहे वासेत्ति) भरतक्षेत्र (दाहिणड्डभरहेति) दक्षिणार्धभरते (इमीसे ओसप्पिणीएत्ति) यत्र समये समये रूपरसादीनां हानिः स्यात् साऽवसर्पिणी, तप्तोऽस्यां अवमपिण्यां (सुसमसुसमाए समाए विइकंताएत्ति) सुषमसुषमानानि चतुष्कोटाकोटिसागरप्रमाणे प्रथमारके अतिक्रान्ते (सुसमाए समाएत्ति) सुषमानाम्नि त्रिकोटाकोटिसागरप्रमाणे द्वितीयारके (विइकताए) अतिक्रांते (सुसमदूसमाए समाएत्ति) सुषमदुष्षमानानि द्विकोटाकोटिसागरप्रमाणे CSCRCAS
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy