________________
+५८-
3A%A925A5
पहरणं कथं उक्तं इति चेत् सत्य, अत्र हि भगवान् देवानन्दाकुक्षौ अवतीर्णः प्रसूतवती च त्रिशलेति असंगतिः स्यात् तन्निवारणाय 'पश्चहत्थुत्तरे'त्ति वचनं, इत्यलं प्रसङ्गेन, कल्याणकानि पञ्चव[१]॥ [तंजहत्ति तद्यथा| पश्चहस्तोत्तरत्वं भगवतो मध्यमवाचनया दर्शयति-हत्थुत्तराहिं चुएत्ति] उत्तराफल्गुनीषु च्युतो देवलोकात् [चइत्ता गम्भं वकंतेत्ति] च्युत्वा गर्ने उत्पन्नः [हत्थुराहिं गम्भाओ गम्भं साहरिएत्ति] उत्तराफाल्गुनीषु गर्भात गर्भ संहृतः, देवानन्दागर्भात् त्रिशलागर्भे मुक्त इत्यर्थः,[हत्युत्तराहिं जाएत्ति] उत्तराफाल्गुनीषु जातः[हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पब्बइएत्ति उत्तराफाल्गुनीषु मुण्डो भूत्वा, तत्र द्रव्यतो मुण्डः केशलुचनेन भावतो मुण्डः रागद्वेषाभावेन, आगारात्-गृहात् निष्क्रम्येति शेषः अनगारिता-साधुतां'पव्वइए'त्ति प्रतिपन्नः, | तथा [हत्थुत्तराहिति] उत्तराफाल्गुनीषु [अणन्तेत्ति] अनन्तं-अनन्तवस्तुविषयं[अणुत्तरेत्ति] अनुपम [निव्वाघाएत्ति] निर्व्याघात-भित्तिकटादिभिरस्खलितं [निरावरणेत्ति] समस्तावरणरहितं [कसिणेत्ति] कृत्लं-सर्वपर्यायोपेतवस्तुज्ञापकं [पडिपुण्णेत्ति परिपूर्ण-सर्वावयवसंपन्नं, एवंविधं यत् [केवलवरनाणदंसणे समुप्पन्नेत्ति] वरं-प्रधानं केवलज्ञानं केवलदर्शनं च तत् उत्तराफाल्गुनीषु प्राप्तः, [साइणा परिनिव्वुए भयवन्ति] स्वातिनक्षत्रे मोक्षं गतो भगवान् (२) ॥ अथ विस्तरवाचनया श्रीवीरचरित्रम्-[ तेणं कालेणंति ] तस्मिन् काले
बहुकल्याणकार्य बहुवचनमिति प्रणेतारो बालिशा एव, यतः फाल्गुन्योईिवचनान्तता स्वतः कोशादिसंगता, द्वित्वे च प्राकृते बहुत्वं स्वभावादेव, किंच 'फल्गुनीपोष्टपदस्य भे' [२-२-१२३] इत्यपि नेक्षितं तैराग्रहाकुलैः बहुकक्ष्याणेत्याग्रुपज्ञायमानः, कथमन्यथा बहुत्र वाक्येषु बहुवचनं