SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोव्या० १ षटकल्याणकनिरासः ॥९॥ स्युः, न च तानि त्वयाऽपि तथोच्यन्ते, तस्माद्यथा पञ्चउत्तरासाढे इत्यत्र नक्षत्रसाम्यात् राज्याभिषको मध्ये गणितः, परं कल्याणकानि तु 'अभीइछट्टे' इत्यनेन सह पश्चैव, तथाऽत्रापि 'पञ्चहत्थुत्तरे' इत्यत्र नक्षत्रसाम्यात् गर्भापहारो मध्ये गणितः, परं कल्याणकानि तु 'साइणा परिनिव्वुडे' इत्यनेन सह पञ्चैव, तथा श्रीआचाराङ्गटीकाप्रभृतिषु 'पश्चहत्थुतरे' इत्यत्र पञ्च वस्तून्येव व्याख्यातानि, न तु कल्याणकानि। किञ्च-श्रीहरिभद्रसूरिकृतयात्रापश्चाशकस्य अभयदेवसूरिकृतायां टीकायां अपि-आषाढशुद्धषष्ठयां गर्भसंक्रमः १ चैत्रशुद्धत्रयोदश्यां जन्म २ मार्गासितदशम्यां दीक्षा ३ वैशाखशुद्धदशम्यां केवलं ४ कार्तिकामावास्यायां मोक्षः ५ एवं श्रीवीरस्य पश्च कल्याणकानि उक्तानि, अथ यदि षष्ठं स्यात् तदा तस्यापि दिनं उक्तं स्यात्। अन्यच्च-नीचैर्गोत्रविपाकरूपस्य | अतिनिन्द्यस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनं अनुचितं ॥ 'पञ्चहत्थुत्तरे' इत्यत्र गर्भा ॥९॥ AAAAAKA4 ताश्च पञ्चसु स्थानेषु गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता इति प्रथमानें, 'चवणाईगं छह वस्थूण'ति कल्पचूणौँ । मोचनार्थत्वाभावादपहारस्यानेन संक्रमानान्तरतामुक्त्वाऽप्यपहारस्य कल्याणकतया प्रथनं वक्तुः पृथुस्थूलबुद्धरनुमापकं । कल्याणकानि वस्तुस्थानरूपाणि न तु वस्तुस्थानानि कल्याणकानीति तु सुबोधमेव २ महोत्सवार्थ वीरकल्याणकभणमप्रसंगे एतदुक्तेः षष्ठकल्याणकवर्णनमाकाशकुसुमकल्पं, जिनवल्लभात् प्राक् न केनापि च लेशतोऽपि तदुक्तं, जिनवल्लभश्च सूत्रोत्तीर्णवादीति जीवामिगमप्रज्ञापनादौ मलयगिरयः, परेषामनुगतिरनाभोगिकी ३ गर्भापहारोऽशुभः गर्भसंक्रमस्तूत्तमकुले उत्तमः, विचार्यों भेदोऽनयोर्वावदूकैः, अपहारे हि भाजने वक्षो देवानन्दा, उत्तमकुलादुत्तमकुले संक्रमेऽपि पितृद्वयादिना स्पष्टैवाशुभता,
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy