SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ कल्प.मुबोध्या०६ ॥१६॥ वीरमोक्षवाचनान्तरं सू. १४८ ॥१२६॥ स्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे दृश्यते इति भावः, अन्ये पुनर्वदन्ति-अयं अशीतितमे संवत्सरे इति कोऽर्थः ?-पुस्तके कल्पलिखनस्य हेतुभूतः अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्सरलक्षणः कालो गच्छति, 'वायणंतरे' इति कोऽर्थः १-एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वाचनान्तरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः, तथा चायमर्थः-नवशताशीतितमवर्षे कल्पस्य पुस्तके लिखनं नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षदाचनेति, तथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्न कोशे--वीरात्रिनन्दाङ्क ( ९९३ ) शरद्यचीकरत् , त्वच्चैत्यपूते ध्रुवसेनभूपतिः । यस्मिन् महै: संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते? ॥ १ ॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव 'वल्लहीपुरंमि नयरे' इत्यादिवचनात् , तत्त्वं पुनः केवलिनो विदन्तीति ॥ १४८ ॥ == ====== == = = === = = इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां षष्ठः क्षणः समाप्तः । ग्रन्थाग्रम् १००७। पण्णामपि व्याख्यानानां ग्रन्थानम् ।। ४२३२ ॥ श्रीरस्तु
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy