________________
| प्रक्षीणसर्वदुःखस्य ( नव वासंसयाई विइकंताई ) नव वर्षशतानि व्यतिक्रान्तानि ( दसमस् य वाससयस्म ). दशमस्य च वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति, यद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते तथापि यथा पूर्वटीकाकारर्याख्यातं तथा व्याख्यायते, तथाहि--अत्र केचिद्वदन्ति यत्कल्पसूत्रस्य पुस्तक लिखनकालज्ञापनाय इदं सूत्रं श्रीदेव धिंग णिक्षमाक्षमणैर्लि' खितं तथा चायमर्थो यथा श्रीवीरनिर्वाणादशीत्यधिक नववर्षशतातिक्रमे पुस्तकारूढः सिद्धान्तो जातस्तदा कल्पोऽपि पुस्तकारूढो जात इति, तथोक्तं - वेल्लहपुरंमि नयरे देवद्विपमुहसयल सङ्घेहिं । पुत्थे आगमलिहिओ नवसय असीआओं वीराओ ॥ १ ॥ अन्ये वन्दति - नवशतअशीतिवर्षे वीरात् सेनांङ्गजार्थमानन्दे । सङ्घसमक्षं समहं प्रारब्धं वाचितुं विज्ञैः ॥ १ ॥ इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणादशीत्यधिकन व वर्षशतातिक्रमे कल्पस्य सभासमक्षं वाचना जाता तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुनः केवलिनो विदन्तीति ( वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसह ) वाचनान्तरे पुनरयं त्रिनवतितमः संवत्सरः कालो गच्छतीति दृश्यते, अत्र केचिद्वदन्ति-वाचनान्तरे कोऽर्थः ? - प्रत्यन्तरे 'तेणउए' इति दृश्यते, यत् कल्पस्य पुस्तके लिखनं पर्षदि वाचनं वा अशीत्यधिकनववर्षशतातिक्रमे इति कचित् पुस्तके लिखितं तत्पु२ ध्रुवसेनस्य नामान्तरमिदं
१ वल्लभीपुरे नगरे देवर्द्धिप्रमुखसकलसङ्घैः । पुस्तके आगमो लिखितो नवशताशीतौ वीरात् ॥ सेनाङ्गजनामा पुत्रो वाइति तु निरक्षरवच: ।
वीरमोक्षवाचनान्तरं सू. १४८