SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तमं व्याख्यानं प्रारभ्यते ॥ अथ जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वचरित्रमाह - ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए ) पार्श्वनामा अर्हन पुरुषश्चासौ आदानीयश्च आदेयवाक्यतया आदेयनामतया च पुरुषादानीयः, पुरुषप्रधान इत्यर्थः, ( पंचविसाहे होत्था ) पञ्चसु विशाखा यस्य स पञ्चवि शाखः अभवत् (तंजहा ) तद्यथा ( विसाहाहिं चुए, चहत्ता गन्भं वकते) विशाखायां च्युतः च्युत्वा गर्भे उत्पन्नः १ ( बिसाहाहिं जाए ) विशाखायां जातः २ ( बिसाहाहिं मुंडे भवित्ता) विशाखायां मुण्डो भूत्वा ( अगाराओ अणगारियं पव्वहए ) अगारान्निष्क्रम्य साधुतां प्रतिपन्नः ३ ( विसाहाहिं अनंते अणुत्तरे निव्वाघाए ) विशाखायां अनन्ते अनुपमे निर्व्याघाते ( निरावरणे कसिणे पडिपुन्ने ) ममस्तावरणरहिते समस्ते प्रतिपूर्ण ( केवलवरनाणदंसणे समुत्पन्ने ) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने ४ ( विसाहाहिं परिनिबुडे ) विशाखायां निर्वाणं प्राप्तः ५ ॥ ( १४९ ॥ ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः ( पढमें पक्खे ) प्रथमः श्रीपार्श्वकल्याणकानि सू. १४९
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy