SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ व्या० ६ ॥ १२४ ॥ ( अपराजियाणं ) अपराजितानां ( उक्कोसिया वा संपया हुत्था ) उत्कृष्टा एतावती वादिस म्पदा अभवत् (१४३) | ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त अंतेवासिसयाई सिद्धाई सप्त शिष्यशतानि सिद्धिं गतानि ( जाव सव्वदुक्खप्पहीणाई) यावत् प्रक्षीणसर्वदुःखानि ( चउद्दस अजियासयाई सिद्धाई ) चतुर्द्दश आर्यिकाशतानि सिद्धौ गतानि । ( १४४ ) | ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (अट्ठ सया अणुत्तरोववाइयाणं ) अष्ट शतानि अनुत्तरोपपातिकनां - अनुत्तरविमानोत्पन्नमुनीनां कीदृशानां १ - ( गइकल्लाणाणं ) गतौ - आगामिन्यां मनुष्यगतौ कल्याणं- मोक्षप्राप्तिलक्षणं येषां ते तथा तेषां पुनः कीदृशानां १ - ( ठिइकल्लाणाणं) स्थितौ देवभवेऽपि कल्याणं येषां ते तथा तेषां वीतरागप्रायत्वात्, अत एव ( आगमेसि भद्दाणं ) आगमिष्यद्भद्भाणां, आगामिभवे सेत्स्यमानत्वात् (उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था ) उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पदा अभवत् ॥ ( १४५ ) ॥ (समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( दुविहा अंतगडभूमी हुत्था ) द्विविधा अन्तकृतो-मोक्षगामिनस्तेषां भूमिः - कालोऽन्तकृद्भूमिः अभवत् तदेव द्विविधत्वं दर्शयति- (तंजहा ) तयथा - ( जुगंतगड भूमीय परियायंतगडभूमी य) युगान्तकृद्भूमिः पर्यायान्तकृद्भूमिश्च तत्र युगानि - कालमानविशेषास्तानि च क्रमवर्त्तीनि तत्साधर्म्या क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तकृमिर्या सा युगान्तकृद्भूमिः पर्यायः - प्रभोः केवलित्वकालस्त आश्रित्य अन्तकृद्भूमिः पर्याया " श्रीवीरस्यान्तकृद्भूमिः सू. १४६ ॥ १२४ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy