SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सम्पदा अभवत् ॥ (१४०) (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त सया वेउव्वीणं सप्त शतानि वैक्रियलब्धिमतां मुनीनां कीदृशानां ? ( अदेवाणं देविड्डिपत्ताणं) अदेवानामपि देवद्धिविकुर्वणास|मर्थानां इति भावः (उक्कोसिया वेडव्विसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् ॥ (१४१) ॥ ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (पंच सया विउलमईणं ) पञ्च शतानि विपुलमतीनां कीदृशानां ? - ( अड्डाइज्जेसु दीवेसु दोसु अ समुद्देसु ) अर्धतृतीयेषु द्वीपेषु द्वयोः समुद्रयोश्च विषये (सन्नीणं पंचिंदियाणं पज्जत्तगाणं) सञ्ज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां च (मणोगए भावे जाणमाणाणं) मनसि गतान् भावान् जानतां (उकोसिआ विउलमईणं संपया हुत्था) उत्कृष्टा एतावती विपुलमतीनां सम्पदा अभवत्, तत्र विपुलमतयो हि घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकः शारदो नीलवर्ण इत्यादिसर्वविशेषोपेतं सर्वतः सार्द्धद्वयङ्गुलाधिके मनुष्यक्षेत्रे स्थितानां सञ्ज्ञिपञ्चेन्द्रियाणां मनोगतं पदार्थ जानन्ति, ऋजुमतयस्तु सर्वतः सम्पूर्णमनुष्यक्षेत्रस्थितानां सञ्ज्ञिपञ्चेन्द्रियाणां मनोगतं सामान्यतो घटादिपदार्थमात्रं जानन्तीति विशेषः । (१४२ ) ॥ ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( चत्तारि सया बाईणं ) चत्वारि शतानि वादिमुनीनां कीदृशानां १ - ( सदेवमणुआसुराए परिसाए बाए ) देवमनुष्यासुरसहितायां पर्षदि वादे २ सार्धद्वयाङ्गुलहीने इत्यौपपातिके, नन्द्यादिषु स्वत्रोक्तवत्, विपुलमतेर्मनुष्यक्षेत्रमित्यपि तत्र । श्रीवीरश्रमणादिपर्वत् सू. १३४१४५
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy