SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ k | भस्मग्रहोत्तारः कुन्यू|त्पत्तिः स. |१३१-१३२ |॥१२२॥ Bा प्रक्षीणं आयुर्जिनेन्द्रैरपि वर्द्धयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थबाधा भविष्यत्येव, किन्तु षडशीतिवर्षा युषि कल्किनि कुनृपतौ त्वया निगृहीते सति वर्षसहस्रद्वये पूर्णे मजन्मनक्षत्राद् भस्मग्रहे व्यतिक्रान्ते च कल्प.सुबो- त्वत्स्थापितकल्किपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति । (१३०)॥ व्या०६ सूत्रकारा अपि तदेवाहुः-(जया णं से खुदाए भासरासी महग्गहे) यदा च स क्षुद्रात्मा भस्मराशिमहा. ॥१२२॥ ग्रहः (दोवाससहस्सठिई) द्विवर्षसहस्रस्थितिकः (जाव जम्मनक्खत्ताओ विइक्कंते भविस्सइ ) यावत् भगवजन्मनक्षत्रात् व्यतिक्रान्तो भविष्यति, उत्तरिष्यतीत्यर्थः (तया णं समणाणं निग्गंथाणं निग्गंधीण य) तदा श्रमणानां निर्ग्रन्थानां निग्रन्थानां च (उदिए उदिए पूआसकारे भविस्सइ) उदितोदितः पूजासत्कारो भविष्यति ॥ (१३१)(रयणि च णं समणे भगवं महावीरे) यस्यां रात्रौ श्रमणो भगवान् महावीरः ( कालगए जाव सव्वदुक्खप्पहीणे) कालगतः यावत् प्रक्षीण सर्वदुःखः (तं रयणिं च णं कुंथुअणुद्धरी नाम समुप्पन्ना) तस्यां रात्रौ कुन्थुः-प्राणिजातिः या उद्धत्तुं न शक्यते एवंविधा समुत्पन्ना (जा ठिया अचलमाणा) या स्थिता अत एव अचलन्ती सती (छउमत्थाणं निग्गंथाणं निग्गंथी ण य ) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च ( नो चक्खुफासं हव्वमागच्छह ) नैव चक्षुःस्पर्श-दृष्टिपथं शीघ्र आगच्छति (जा अहिआ चलमाणा) या च अस्थिता अत एव चलन्ती (छउमत्थाणं निग्गंथाणं निग्गंधीण य) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च (चक्खुफासं हव्वमागच्छह ) चक्षुर्विषयं शीघ्रं आगच्छति ॥(१३२ ॥)(जं पासित्ता बहहिं निग्गंथेहिं SHOCCASSOCTOUCk S ARIES
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy