________________
एकादशो गणधर
निर्वाणविषयसन्देहसंयुतं च प्रभासनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? ॥१॥ यतः'जरामयं वा यदग्निहोत्रं ' अनेन पदेन निर्वाणाभावः प्रतीयते, कथं ?, यत् अग्निहोत्रं तत् जरामर्य, कोऽर्थः?सर्वदा कर्त्तव्यं, उक्ता अग्निहोत्रस्य सर्वदा कर्तव्यता अग्निहोत्रक्रिया च निर्वाणकारणं न भवति, शबलत्वात्, यतः साकेषाश्चिदूधकारणं केषाश्चिदुपकारकारणं इति, ततो मोक्षसाधकानुष्ठानक्रियाकालस्य अनुक्तत्वान्मोक्षो नास्ति इति मोक्षाभावः प्रतीयते, तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परंसत्यज्ञानं, अन
न्तं ब्रह्मेति' इत्यादिपदैर्मोक्षसत्ता प्रतीयते, इति तव सन्देहः, परं अविचारितं एतत्, यस्मात् 'जरामर्य वा दयदग्निहोत्रं ' इत्यत्र वाशब्दोऽप्यर्थे स च मिन्नक्रमः, तथा च जरामर्य यावत् अग्निहोत्रं अपि कुर्यात्, कोऽर्थः १
कश्चित्स्वर्गाद्यर्थी यावज्जीवं अग्निहोत्रं कुर्यात् , कश्चिन्निर्वाणार्थी अग्निहोत्रं विहाय निर्वाणसाधकानुष्ठानमपि कुर्यात् , न तु नियमतोऽग्निहोत्रमेवेत्यपिशब्दार्थः, ततो निर्वाणसाधकानुष्ठानकालोऽप्युक्त एव, तस्मादस्ति निर्वाणं, इत्येकादशःगणधरः ११॥
एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रव्रजिताः, तत्र मुख्यानां एकादशानां त्रिपदीग्रहणपूर्वकं एकादशाङ्ग 3|चतुर्दशपूवरचना गणधरपदप्रतिष्ठा च, तत्र द्वादशागीरचनानन्तरं भगवांस्तेषां तदनुज्ञां करोति, शक्रश्च
दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः सन्निहितो भवति. ततः स्वामी रत्नमयसिंहासना|दुत्थाय सम्पूर्णा चूर्णमुष्टिं गृह्णाति, ततो गौतमप्रमुखा एकादशापि गणधरा ईषदवनता अनुक्रमेण तिष्ठन्ति,
CHERRACKAKARAGAON