________________
कल्प.सुबो
न्या०६
अष्टमनवम
दशमा गणधरा ॥१७॥
॥११॥
यत एते स्वया मया च प्रत्यक्षं एव दृश्यन्ते देवाः, यत्तु वेदे 'मायोपमान् ' इत्युक्तं तद्देवानां अपि अनित्यः स्वसूचकं इति सप्तमः गणधर : ७॥
अथ नारकसन्देहात् सन्दिग्धमकम्पितं विबुधमुख्यम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ?॥१॥ यस्मात् 'न ह वै प्रेत्य नरके नारकाः सन्ति' इत्यादिपदैर्नारकाभावः प्रतीयते, ' नारको वै एष जायते यः शुद्रान्नमश्नाति' इत्यादिपदेस्तु नारकसत्ता प्रतीयते इति तब सन्देहः, परं 'नह वै प्रेत्य नरके नारकाः सन्ति'
इति कोऽर्थः १-प्रेत्य-परलोके केचिन्नारका मेर्वादिवत् शाश्वता न सन्ति, किन्तु यः कश्चित् पापमाचरति स PIनारको भवति, अथवा नारका मृत्वाऽनन्तरं नारकतया नोत्पद्यन्ते इति प्रेत्य नारका न सन्तीत्युच्यते, इति अष्टमो गणधरः८॥
अथ पुण्ये संदिग्धं द्विजमचलभ्रातरं विबुधमुख्यम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ॥१॥ तव सन्देहकारणं तावत् अग्निभूत्युक्तं 'पुरुष एवेदं ग्निं सर्व' इत्यादि पदं, तत्र उतरं अपि तथैव ज्ञेयं, तथा 'पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा' इत्यादिवेदपदैः पुण्यपापयोः सिद्धिश्च, इति नवमः गणधरः ९॥
अथ परभवसन्दिग्धं मेतार्य नाम पण्डितप्रवरम् । ऊचे विभुयथार्थ वेदार्थ किं न भावयसि ? ॥१॥ यत्तव इन्द्रभूत्युक्तः - विज्ञानघन एवैतेभ्यो भूतेभ्यः' इत्यादिपदैः परलोकसन्देहो भवति, परं तेषां पदानां अर्थ अस्मदुक्तप्रकारेण विभावय यथा सन्देहो निवर्तते, इति दशमः गणधरः १०॥
SPECARRCHCHAAGRICK