________________
षष्ठसप्तमौ गणधरौ
कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म बद्ध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि, न तु मनुष्यो मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति ? , न हि शालीवीजाद्गोधूमास्कुरः सम्भवतीति या तव चित्ते युक्तिः प्रतिभाति सापि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात् कार्यवसदृश्यं अपि सम्भवत्येवेति पञ्चमः गणधरः ५॥
अथ बन्धभोक्षविषये सन्दिग्धं मण्डिताभिधं विबुधम् । ऊचे विभुयथास्थं वेदार्थ किं न भावयसि ?॥१॥ यतः स एष विगुणो विभुन बद्धयते संसरति वा मुच्यते मोचयति वा' त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् स एषः-अधिकृतो जीवः, कथम्भूतो? -विगुणः-सत्त्वादिगुणरहितो विभुः-सर्वव्यापको न बद्धयते-पुण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात् न संसरति-न संसारे परिभ्रमति, न मुच्यते कर्मणा बन्धाभावात् , नाप्यन्यं मोचयति अकर्तृकत्वात्, परं नायं अर्थः समर्थः, किन्तु स एष आत्मा, किंविशिष्टो?विगुणो-विगतच्छाद्मस्थिकगुणः, पुनः कीदृशो ?-विभु:-केवलज्ञानवान् केवलज्ञानखरूपेण विश्वव्यापकत्वात् , एवंविध आत्मा पुण्यपापाभ्यां न युज्यते इति सुस्थं, इति षष्ठः गणधरः ६ ॥
अथ देव विषयसन्देहमयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ?॥१॥ यतः'को जानाति मायोपमान गीर्वाणान् इन्द्रयमवरुणकुबेरादीन् ' इति पदैर्देवनिषेधः प्रतीयते, ‘स एष यज्ञा. युधी यजमानोऽञ्जसा स्वर्लोकं गच्छति' इति पदैस्तु देवसत्ता प्रतीयते इति तवस न्देहः, परं अविचारितं एतत्,