________________
आकाशस्य चन्दनादिना मण्डनं खङ्गादिना खण्डनं च न सम्भवति, तस्मात् कर्म नास्ति इति तव चेतसि | वर्त्तते, परं हे अग्निभूते ! नायमर्थः समर्थः, यत इमानि पदानि पुरुषस्तुतिपराणि यथा त्रिविधानि वेदपदानि - कानिचिद्विधिप्रतिपादकानि यथा ' स्वर्गकामोऽग्निहोत्रं जुहुयादित्यादिनि कानिचित् अनुवादपराणि यथा 6 द्वादश मासाः संवत्सर' इत्यादीनि कानिचित् स्तुतिपराणि यथा 'इदं पुरुष एवेत्यादीनि ततोऽनेन पुरुषस्य महिमा प्रतीयते, न तु कर्माद्यभावः, यथा - जले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके । सर्वभूतभयो विष्णुस्तस्माद्विष्णुमयं जगत् ॥ १ ॥ अनेन वाक्येन विष्णोर्महिमा प्रतीयते, न तु अन्यवस्तूनां अभाव:, किञ्च - अमूर्त्तस्यात्मनो मूर्त्तेन कर्मणा कथं अनुग्रहोपघातौ १, तदपि अयुक्तं यत् अमूर्त्तस्यापि ज्ञानस्य मद्यादिना उपघातो ब्राहम्याद्यौषधेन च अनुग्रहो दृष्ट एव, किञ्च कर्म विना एकः सुखी अन्यो दुःखी एक: भुरन्यः किङ्कर इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम सम्भवतीति श्रुत्वा गतसंशयः प्रब्रजितः । इति द्वितीयो
गणधरः २ ॥
अथ वायुभूतिरपि तौ प्रत्रजितौ श्रुत्वा यस्य इन्द्रभूत्यग्निभूती शिष्यौ जातौ स ममापि पूज्य एव तद्गच्छा म्यहमपि संशयं पृच्छामि इति सोऽप्यागतः, एवं सर्वेऽप्यागताः, भगवताऽपि सर्वेऽपि प्रतिबोधिताः, क्रमचायं तज्जीवतच्छरीरे सन्दिग्धं वायुभूतिनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? ॥ १॥ यतः - ' विज्ञनघन एवैतेभ्यो भूतेभ्य' इत्यादिवेदपदैः भूतेभ्यो जीवः पृथग् नास्ति इति प्रतीयते, तथा 'सत्येन
तृतीय गणधर :