________________
कल्प.सुबोव्या०६ ॥११५॥
द्वितीय गणधर ॥११५॥
SHARASINAGAR
पयोगरूपा मंज्ञा अवतिष्ठते, वर्तमानोपयोगेन तस्या नाशितत्वादिति, अपरं च सवै अयं आत्मा ज्ञानमय' इत्यादि, तथा 'ददद', कोऽर्थः१-दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः, किं च-विद्यमानभोक्तृकं इदं शरीरं, भोग्यत्वात् , ओदनादिवत् इत्याद्यनुमानेनापि, तथा-क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे । चंद्रकांते सुधा यत्, तथाऽऽत्माऽगंगतः पृथक् ॥१॥ इवं च प्रभुवचनैः छिन्नसंदेहः श्रीइंद्रभूतिः पंचशतपरिवारः प्रवजितः, तत्क्षणाच ' उपन्नेह वा (१) विगमेह वा (२) धुवेइ वा (३)' इति प्रभुवदनात्रिपदीं प्राप्य द्वादशांगी रचितवान् । इति प्रथमगणधरः१॥
तं च प्रव्रजितं श्रुत्वा, दध्यौ तवान्धवोऽपरः । अपि जातु द्रवेदद्रिहिमानी प्रज्वलेदपि ॥१॥ वह्निः शीतः स्थिरो वायुः, संभवेन्न तु बांधवः । हारयेदिति पप्रच्छ, लोकानश्रद्दधद् भृशम् ॥ २॥ ततश्च निश्चये जाते, चिंतयामास चेतसि । गन्वा जित्वा च तं धूर्त, वालयामि सहोदरम् ॥ ३॥ सोऽप्येवमागतः शीघ्र, प्रभुणाऽऽ|भाषितस्तथा । संदेहं तस्य चित्तस्थं, व्यक्तीकृत्यावदद्विभुः ॥४॥ हे गौतमाग्निभूते! कः, संदेहस्तव कर्मणः । कथं वा वेदतत्त्वार्थ, विभावयसि न स्फुटम् ॥ ५॥ स चाय-पुरुष एवेदं ग्निं सर्व यद्भूतं यच्च भाव्यं' इत्यादि, तत्र 'ग्निं' इति वाक्यालङ्कारे यद् भूतं अतीतकाले यच्च भाव्यं भाविकाले तत् सर्व इदं पुरुष एव-आत्मैव, एवकारः कर्मेश्वरादिनिषेधार्थः, अनेन वचनेन यन्नरामरतिर्यकपर्वतपृथ्व्यादिकं वस्तु दृश्यते तत्सर्व आत्मैव, | ततः कर्मनिषेधः स्फुट एव, किंच-अमूत्तस्य आत्मनो मूर्तेन कर्मणा अनुग्रह उपघातश्च कथं भवति ?, थया
PRASAKARANGABAR