SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रथम गणधर स्यावालगोपालं, प्रच्छन्नः किं दिवाकरः ? ॥ २४ ॥ प्रकाशयति गुप्तं चेत्, संदेहं मे मनःस्थितम् । तदा जानामि सर्वज्ञमन्यथा तु न किंचन ।। २५॥ चिंतयंतमिति प्रोचे, प्रभुः को जीवसंशयः ?। विभावयसि नो वेदपदार्थ | शृणु तान्यथ ॥ २६॥ समुद्रो मथ्यमानः किं ?, गंगापूरोऽथवा किमु ? । आदिब्रह्मध्वनिःकिं वा?, वीरवेदध्वनिर्बभौ ॥ २७ ॥ वेदपदानि च-'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्यसंज्ञाऽस्ती'ति, त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् विज्ञानघनो-गमनागमनादिचेष्ठावान् आत्मा एतेभ्यो भूतेभ्यः-पृथिव्यप्तेजोवाय्वाकाशेभ्यः समुत्थाय-प्रकटीभूय मद्यांगेषु मदशक्तिरिव, ततस्तानि--भूतान्येव अनु विनश्यति-तत्रैव विलयं याति जले बुबुद इव, ततो भूतातिरिक्तस्य आत्मनोऽभावात् न प्रेत्यसं-- ज्ञास्ति-मृत्वा पुनर्जन्म नास्तीति, परं अयुक्तोऽयमर्थः, शणु तावदेतेषां अर्थ-विज्ञानघन इति कोऽर्थः?-विज्ञानघनो-ज्ञानदर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्माऽपि विज्ञानघनः, प्रतिप्रदेशं अनंतज्ञानपर्यायात्मकत्वात् , स च विज्ञानघनः-उपयोगात्मक आत्मा, कथंचितेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते उत्प-| द्यते इत्यर्थः, घटादिज्ञानपरिणतो हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानपरिणामस्य घटादि| वस्तुसापेक्षत्वात् , एवं च एतेभ्यो भूतेभ्यो-घटदिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय समुत्पद्य तान्येव अनु विनश्यति, कोऽर्थः१-तस्मिन् घटदौ वस्तुनि नष्टे व्यवहिते वा जीवोऽपि तदुपयोगरूपतया नश्यति अन्योपयोगरूपतया उत्पद्यते सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसंज्ञास्ति, कोऽर्थः १-न प्राक्तनी घटायु 83UCCECAUSA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy