SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कल्प.मुबी श्रीवीरपाचे गमन ॥११४॥ ध्या०६ ॥११॥ चक्रिणः ॥१०॥ अभेद्यं किमु वज्रस्य, किमसाध्यं महात्मनाम् । क्षुधितस्य न किं खाद्यं, किं न वाच्यं खलस्य च ? ॥ ११ ॥ कल्पणामदेयं किं, निर्विण्णानां किमत्यजम् ? । गच्छामि तर्हि तस्यांते, पश्याम्येतत्पराक्रमम् ॥ १२ ॥ तथा ममापि त्रैलोक्यजित्वरस्य महौजसः । अजेयं किमिवास्तीह, तद्गच्छामि जयाम्यमुम् ॥ १३ ॥ इत्यादि चिंतयन् प्रभुमवेक्ष्य सोपानसंस्थितो दध्यौ । किं ब्रह्मा किं विष्णुः सदाशिवः शंकरः किं वा? ॥ १४ ॥ चंद्रः किं ? स न यत्कलंककलितः सूर्योऽपि नो तीव्ररुक, मेरुः किं ? न स यन्नितांतकठिनो विष्णुः ? न यत् सोऽसितः । ब्रह्मा किं ? न जरातुरः स च जराभीक न यत्सोऽतनुः, ज्ञातं दोषविवर्जिता ऽखिलगुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥ १५ ॥ हेमसिंहासनासीनं, सुरराजनिषवितम् । दृष्ट्वा वीरं जगत्पूज्य, चिंतयामास चेतसि ॥१६॥ कथं मया महत्त्वं हा, रक्षणीयं पुरार्जितम् । प्रासाद कीलिकाहेतोभक्तुं को नाम वांछति ॥ १७ ॥ एकेनाविजितेनापि, मानहानिस्तु का मम । जगज्जैत्रस्य किं नाम, करिष्यामि च सांप्रतम् ? ॥ १८ ॥ अविचारितकारित्वमहो मे मम्ददुर्दियः । जगदीशावतारं यत्, जेतुमेनं समागतः ॥ १९ ॥ अस्याग्रेऽहं कथं वक्ष्ये , पार्श्वे यास्यामि वा कथम् ? । संकटे पतितोऽस्मीति, शिवो रक्षतु मे यशः ॥ २०॥ कथंचिदपि भाग्येन, चेद्भवेदत्र मे जयः। तदा पंडितमूर्द्धन्यो, भवाभि भुवनत्रये ॥ २१ ॥ इत्यादि चिंतयन्नेव, सुधा. मधुरया गिरा ।आभाषितो जिनेंद्रेण, नामगोत्रोक्तिपूर्वकम् ।। २२॥ हे गौतमेंद्रभूते ! त्वं, सुखेनागतवानसि। इत्युक्तचिंतयद्वेत्ति, नामापि किमसौ मम ? ॥ २३ ॥ जगत्रितय विख्यातं, को वा नाम न वेत्ति माम् ? । जन AAAAAAACACADREAM
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy