________________
***** HOSSAINIG
गोधमघरह मर्दितवादिमरह वादिघटमुद्गर वादिघूकभास्कर वादिसमुद्रागस्ते वादितरून्मूलनहस्तिन् वादिसुरसुरेंद्र वादिगरुडगोविंद वादिजनराजान वादिकंसकाहान वादिहरिणहरे वादिज्वरधन्वंतरे वादियूथमल्ल वादिहृदयशल्य वादिगणजीपक वादिशलभदीपक वादिचक्रचूडामणे पंडितशिरोमणे विजितानेकवाद सरस्वतीलब्धप्रसाद इत्यादिविरुदबुंदमुखरितदिकचक्रैः पंचभिः छात्रशतैः परिवृत इंद्रभूतिः वीरसमीपं गच्छंश्चिंतयामास-अहो धृष्टेन अनेन किमेतत् कृतं ? यदहं सर्वज्ञाटोपेन प्रकोपितः, यतः-कृष्णसर्पस्य मंडूकश्चपेटां दातुमुद्यतः। आख रदैश्च मारिदंजष्ट्रापाताय सादरः॥१॥ वृषभः स्वर्गजं शृंगैः, प्रहर्नु कांक्षति द्रुतम् । द्विपः पर्व-18 तपाताय, दंताभ्यां यतते रयात् ॥ २॥ शशकः केसरिस्कंधकेसरां ऋामीहते । मदृष्टौ यदसौ सर्ववित्त्वं |ख्यापयते जने ॥ ३॥ शेषशीर्षमणिं लातुं, हस्तः स्वीय प्रसारितः। सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः ॥ ४ ॥ समीराभिमुखस्थेन, दवाग्निालितोऽमुना । कपिकच्छूलता देहे, सौख्यायालिंगिता ननु ॥५॥
भवतु, किमेतेन ?, अधुना निरुत्तरीकरोमि यतः तावद्गर्जति खद्योतस्तावद् गर्जति चंद्रमा: । उदिते तु सहहै स्रांशी, न खद्योतो न चंद्रमाः ॥ ६॥ सारंगमातंगतुरंगपूगः, पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फु.
टकेसरश्रीमंगाधिराजोऽयमुपेयिवान् यत् ॥ ७॥ मम भाग्यभराद्यद्बा, वाद्ययं समुयस्थितः । अद्य तां रसना| कंडूमपनेष्ये विनिश्चितम् ॥ ८ ॥ लक्षणे मम दक्षत्वं, साहित्ये संहता मतिः। तर्के कर्कशताऽत्यर्थ, क शास्त्रे नास्ति मे श्रमः ? ॥१॥ यमस्य मालवो दूरे, किं स्यात् ? को वा वचस्विनः। अपोषितो रसो? नूनं, किमजेयं च
COMSILCALCUSSACARE