________________
कल्प. सुबोव्या०६
॥११३॥
मालवीयास्तिलांगास्तिलंगोद्भवा जज्ञिरे पंडिता मद्भयेन ॥ ७ ॥ अरे लाटजाताः क याताः प्रणष्टाः, पटिष्टा अपि द्राविडा ब्रीडयार्त्ताः । अहो वादिलिप्माऽऽतुरे मय्यमुष्मिन् जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ ८ ॥ तस्य ममाग्रे कोऽसौ वादी सर्वज्ञमानमुद्वहति । इति तत्र गंतुमुत्कं तमग्निभूतिर्जगादैवं ॥ ९ ॥ किं तत्र वादिकीटे तव प्रयासेन ? यामि बंधोऽहम् । कमलोन्मूलन हेतोर्नेतव्यः किं सुरेंद्रगजः १ ॥ १० ॥ अकथयदधेंद्र भू|तिर्यद्यपि मच्छात्रजय्य एवासौ । तदपि प्रवादिनाम श्रुत्वा स्थातुं न शक्नोमि ॥ ११ ॥ पीलयतस्तिलः कश्चित्, दलतश्च यथा कणः । सूडयतस्तृणं किंचिदगस्तेः पिवतः सरः || १२ || मर्दयतस्तुषः कोऽपि तद्वदेष ममाभवत् । तथापि सासहिर्न हि, मुधा सर्वज्ञवादिनम् ॥ १३ ॥ एकस्मिन्नजिते यस्मिन् सर्वमध्यजितं भवेत् । एकदा हि सती लुप्तशीला स्यादसती मदा ॥ १४ ॥ चित्रं चैव त्रिजगति सहस्रशो निर्जिते मया वादैः । क्षिप्रचटस्थास्यामिव कंकटुकोऽसौ स्थितो वादी ॥ १५ ॥ अस्मिन्नजिते सर्व जगज्जयोद्भूतमपि यशो नश्येत् । अल्पमपि शरीरस्थं शल्यं प्राणान् वियोजयति ॥ १६ ॥ यतः - छिद्रे स्वल्पेऽपि पोतः किं, पाथोधौ न निमजति ? । एकस्मिन्निष्टके कृष्टे, दुर्ग: सर्वोऽपि पात्यते ॥ १७ ॥ इत्यादि विचित्य विरचितद्वादशतिलकः स्वर्णयज्ञोपवीतविभूषितः स्फारपीतांबराडंबरः कैश्चित्पुस्तकपाणिभिः कैश्चित्कमंडलुपाणिभिः कैश्चिदर्भपाणिभिः सरस्वतीकंठाभरण वादिविजयलक्ष्मीशरण वादिमदगंजन वादिमुखभंजन वादिगजसिंह वादीश्वरलीह वादि सिंह अष्टापद वादिविजयविशद वादिवृंद भूमिपाल वादिशिरःकाल वादिकदलीकृपाण वादितमोभान वादि
इन्द्र भूतेरमर्ष
॥११३॥