________________
HAGARAAC
कोऽपि मूर्खः केनचिद्धृर्तेन वञ्च्यते, अनेन तु सुरा अपि वश्चिताः, यदेवं यज्ञमण्डपं मां सर्वशं च विहाय तत्समीपं गच्छन्ति । अहो! सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमलाकरवड्का, मक्षिकाश्चन्दनं यथा ॥१॥ करभा इव सदृवृक्षान् , क्षीरान्नं शूकरा इव । अर्कस्यालोकवद् घूकास्त्यक्त्वा यागं प्रयान्ति यत् ॥ २॥ अथवा-यादृशोऽयं सर्वज्ञस्तादृशा एवैते, अनुरूप एव संयोगः, यतः-पश्यानुरूपमिन्दीदिरेण माकन्दशेखरो मुखरः। अपिच पिचुमन्दमुकुले मौकुलिकुलमाकुलं मिलति ॥१॥ तथापि नाहं एतस्य सर्वज्ञाटोपं सहे, यतः-व्योम्नि सूर्यद्वयं किं स्याद् , गुहायां केसरिद्वयम् । प्रत्याकारे च स्वगो द्वौ, किं सर्वज्ञावहं स च ?॥१॥18 | ततो भगवन्तं वन्दित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ-भो ! भो ! दृष्टः म सर्वज्ञः ? कीहरूपः |किंस्वरूपः ? इति, जनैस्तु-यदि त्रिलोकी गणनापरा स्यात्, तस्याः समाप्तियदि नायुषः स्यात् । पारेपरायं गणितं यदि स्यात्, गणेयनिःशेषगुणोऽमि स स्यात्, ॥१॥ इत्याद्युक्ते सति स दध्यौ-नूनमेष महाधूर्ती, मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि, विभ्रमे पतितोऽमुना ?। २॥ न क्षमे क्षणमात्रं तु, तं सर्वज्ञंद्रा कदाचन । तमःस्तोममपाकर्तुं, सूर्यो नैव प्रतीक्षते ॥ ३॥ विश्वानरः करस्पर्श, केसरोल्लुंचनं हरिः । क्षत्रियश्च रिपुक्षेपं, न सहते कदाचन ॥ ४॥ मया हि येन वादीद्रास्तूष्णीं संस्थापिताः समे। गेहेशूरतरः कोऽमो, सर्वज्ञो मत्पुरो भवेत् ॥५॥ शैला येनीग्निना दग्धाः, पुरः के तस्य पादपाः। उत्साटिता गजा येन, का वायोस्तस्य पुंभिकाः ?॥ ६ ॥ किंच-गता गौडदेशोद्भवा दूरदेशं, भयाजर्जरा गौर्जरास्त्रासमीयुः। मृता
364CANCIEOCOCOCCUC43649