SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ कल्प.मुबोव्या.६ ॥११॥ केवलज्ञानफलम् सू. ॥११॥ RECRUARY रणे) समस्तावरणरहिते (कसिणे) समस्ते ( पडिपुण्णे) सर्वांवयवोपेते (केवलबरनाणदंसणे समुप्पन्ने) एवं विधे केवलवरज्ञानदर्शने समुत्पन्ने ॥ (१२०)॥ (तए णं समणे भगवं महावीरे) ततो-ज्ञानोत्पत्त्यनन्तरं श्रमणो भगवान् महावीरः (अरहा जाए) अर्हन् जात:-अशोकादिप्रातिहार्यपूजायोग्यो जातः, पुनः कीदृशः? (जिणे केवली सव्वन्नू सव्वदरिसी ) जिनो-रागद्वेषजेता केवली सर्वज्ञः सर्वदर्शी (सदेवमणुआसुरस्स लोगस्स ) देवमनुजासुरसहितस्य लोकस्य (परियायं जाणइ पासइ) पर्यायं इत्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च-साक्षात्क रोति, तर्हि किं देवमनुजासुराणां एव पर्यायमानं एवं जानातीत्याह-(सव्वलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां (आगई गई ठिई चवणं उववायं) आगति भवान्तरात्, गतिं च भवान्तरे, स्थिति-तद्भवसत्कं आयुः कायस्थितिं वा, च्यवनं- देवलोकात्तिर्यग्नरेषु, अवतरणं उपपातो-देवलोके नरकेषु वोत्पत्तिः (तकं मणो) तेषां सर्वजीवानां सम्बन्धि तत्कं ईदृशं यन्मनः (माणसियं) मानसिकं-मनसि चिन्तितं ( भुत्तं) भुक्तं, अशनफलादि (कडं) कृतं, चौर्यादि (पडिसेवियं) प्रतिसेवितं, मैथुनादि (आविकम्म) आवि०कर्म-प्रकटकृतं ( रहोकम्मं ) रहाकर्म-प्रच्छन्नं कृतं, एतत् सर्व सर्वजीवानां भगवान् जानातीति योजना, पुनः किंवि० प्रभुः? (अरहा) न विद्यते रहः-प्रच्छन्न यस्य, त्रिभुवनस्य करामलकवद् दृष्टत्वात् , अरहाः ( अरहस्सभागी)
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy