________________
धुत्वे वर्णन
स्नेहेन न लिप्यते इत्यर्थः, तथा (संखो इव निरंजणे) शङ्ग इव निरञ्जनो, रञ्जनं-रागायुपरञ्जनं तेन शून्यत्वात् कल्प.मुबो
(जीवे इव अप्पडिहयगई)जीव इव अप्रतिहतगतिः,सर्वत्रास्खलितविहारित्वात् (गगणमिव निरालंबणे)गगनमिव हावीरस्य साव्या०६ | निरालम्बनः, कस्याप्याधारस्य अनपेक्षणात् (वाउच अपडिबद्धे) वायुरिव अप्रतिबद्धः, एकस्मन् स्थाने काप्य
॥१०८॥ ॥१०८॥
| वस्थानाभावात् ( सारयमलिलं व सुद्धहियए) शारदसलिलमिव शुद्धहृदयः, कालुष्याकलङ्कितत्वात् (पुक्खहारपत्तं व निरुवलेवे) पुष्करपत्रं-कमलपत्रं तदन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति तथा भगवतोऽपि
कर्मलेपो न लगतीत्यर्थः (कुम्मो इव गुत्तिदिए) कूर्म इव गुप्तेन्द्रियः (खग्गिविमाणं व एगजाए ) खड्गीविषाणमिव एकजातः, यथा खगिनः-श्वापदविशेषस्य विषाणं-शृङ्गं एकं भवति तथा भगवानपि, रागादिना |सहायेन च रहितत्वात् (विहग इव विप्पमुके) विहग इव विप्रमुक्त, मुक्तपरिकरत्वात् अनियतनिवासाच (भारंडपक्खीव अपमत्ते) भारण्डपक्षीव अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरं, यतः–एकोदराः पृथग्ग्रीवास्त्रिपदा मत्यभाषिणः । भारण्डपक्षिणस्तेषां, मृतिभिन्नफलेच्छया ॥१॥ ते चात्यन्तंअप्रमत्ता एवं जीवन्तीति तदुपमा (कुंजरो इव सोंडीरे) कुञ्जर इव शौण्डीरः, कर्मशत्रून प्रति शूरः (वसभो इव जायथामे) वृषभ इव जातस्थामा-जातपराक्रमः, स्वीकृतमहावतभारोद्वहनं प्रति समर्थत्वात् (सिंहो इव दुद्धरिसे) सिंह इव दुर्द्धर्षः, परीषहादिश्वापदैरजय्यत्वात् ( मदरो इव अप्पकंपे) मन्दर इव-मेरुरिव अप्रकम्पः, उपसर्गवातेः अचलितत्वात् (सागरो इव गंभीरे) सागर इव गम्भीरः, हर्षविषादादिकारणसद्भावेऽपि अवि.
AAGACASSACRORE
KARANAGACACILOCAL