SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ वीरस्य साधुत्वे वर्णनं ARACKGROGAMACHAR &ासिंघाणजल्लपारिद्वावणियासमिए ) उच्चार:-पुरीषं प्रश्रवणं-मूत्रं खेलो-निष्ठीवनं सिङ्गानो-नासिकानिर्गतं. श्लेष्म जल्लो-देहमलः एतेषां यत् परिष्ठापनं-त्यागस्तत्र समित:-सावधान:, शुद्धस्थण्डिले परिष्ठापनात्, एतच अन्त्यसमितिद्वयं भगवतो भाण्डसिवानाद्यसम्भवेऽपि नामाग्वण्डनार्थमित्थं उक्तं. एवं (मणसमिए) मनसः सम्यकप्रवर्तकः ( वयसमिए) वचसः सम्यकप्रवर्तकः ( कायसमिए ) कायस्य सम्यकप्रवर्तकः (मणगुत्ते) अशुभपरिणामान्निवर्तकत्वात् मनसि गुप्तः (वयगुत्ते) एवं वचसि गुप्तः (कापगुतं) काये गुप्तः (गुत्ते गुत्तिदिए ) अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य स गुप्तेन्द्रियः ( गुत्तयंभयारी) गुप्तं-वसत्यादिनववृत्तिविराजितं एवंविधं ब्रह्मचर्य चरतीति गुप्तब्रह्मचारी (अकोहे अमाणे अमाए अलोभे) क्रोधरहितः मानरहितः मायारहितः लोभरहितः (संते) शान्तोऽन्तर्वृत्त्या (पसंते) प्रशान्तो बहिया (उपसंते) उपशान्तः-अ न्तर्बहिश्चोभयतः शान्तः, अत एव (परिनिन्धुडे) परिनिर्वृतः-मर्वसन्तापवर्जितः (अणासवे) अनाव:पापकर्मबन्धरहितः हिंसाचाश्रवद्वारविरतेः (अममे) ममत्वरहितः (अकिंचणे) अकिश्चनः, किञ्चन-द्रव्यादि तेन रहितः (छिन्नगथे) छिन्न:-त्यक्तो हिरण्यादिर्ग्रन्थो येन स तथा (निरुवलेवे) निरुपलेपो द्रव्यभावमलापगमेन, तत्र द्रव्यमलः शरीरसम्भवो भावमलः कर्मजनितः, अथ निरुपलेपत्वं दृष्टान्तैढयति-( कंसपाइव मुकतोए)कांस्यपात्रीव मुक्तं तोयमिव तोयं-स्नेहो येन स तथा, यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् २ साधिकमासाधिकाद् वर्षादूश्व वसाचभावेऽपि करचरणादिपरावत्तं चतुर्थ्याः स्थण्डिलादिभाये चाम्त्यायाः समितेः सद्भावः । AAAAAACASTE
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy