SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कल्प.मुबोव्या० ॥८ ॥ अष्टमतपसि नागकेतुकथा ॐAAAAA%** निक्षिप्तः, तेन च कुष्टीरके ज्वलिते सोऽपि मृतः, अष्टमध्यानाच अयं श्रीकान्तमहेभ्यनन्दनो जाता ततोऽनेन पूर्वभवचिन्तितं अष्टमतपः साम्प्रतं कृतं, तदसौ महापुरुषो लघुकर्मा अस्मिन् भवे मुक्तिगामी, यत्नात् पालनीयो, भवतां अपि महते उपकाराय भविष्यतीति उक्त्वा नागराजः स्वं हारं तत्कण्ठे निक्षिप्य स्वस्थानं जगाम, ततः स्वजनैः श्रीकान्तस्य मृतकार्य विधाय तस्य नागकेतुरिति नाम कृतं, क्रमाच स बाल्यादपि जितेन्द्रियः परमश्रावको बभूव, एकदा च विजयसेनराजेन कश्चिद् अचौरोऽपि चौरकलड्न हतो व्यन्तरो जातः, समग्रनगरविघाताय शिलां रचितवान्, राजानं च पादप्रहारेण रुधिरं वमन्तं सिंहासनाद् भूमौ पातयामास, तदा स नागकेतुः कथं इमं सङ्घप्रासादविध्वंसं जीवन् पश्यामीतिबुद्ध्या प्रासादशिखरमारुह्य शिलां पाणिना दः, ततः स व्यन्तरोऽपि तत्तपःशक्तिं असहमानः शिला संहृत्य नागकेतुं नतवान्, तद्वचनेन भूपालं अपि निरुपद्रवं कृतवान् । अन्यदा च स नागकेतुर्जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पण दष्टोऽपि तथैवाव्यमो भावनारूढः केवलज्ञानं आसादितवान् । ततः शासनदेवतार्पतमुनिवेषश्चिरं विहरति स्म, एवं नागकेतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयं । इति नागकेतुकथा ॥ अथात्र श्रीकल्पसूत्रे त्रीणि वाच्यानि, यथा-'पुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थम्मि । इह परिकहिया जिणगणहराइथेरावली चरित्तं ॥१॥' व्याख्या-'पुरिमचरिमाण'त्ति ऋषभवीरजिनयो। 'कप्पत्ति | अयं कल्प:-आचारः यत् वृष्टिर्भवतु मा वा, परं अवश्यं पर्युषणा कर्तव्या, उपलक्षणत्वात् कल्पसूत्रं वाचनीयं REC%C4% AAAAAA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy