________________
*
**
*
न्ताख्यश्च व्यवहारी, तस्य श्रीसखी भार्या, तया च बहुप्रार्थित एकः सुतःप्रसूतः, सच वालक आसन्ने पर्युषणापर्वणि कुटुम्बकृतां अष्टमवात आकर्ण्य जातजातिस्मृतिः स्तन्यपोऽपि अष्टमं कृतवान् , ततस्तं स्तन्यपानमकुर्वाणं पर्युषितमालतीकुसुममिव म्लानं आलोक्य मातापितरौ अनेकान् उपायांश्चक्रतुः, क्रमाच्च मूछा प्राप्तं तं बालं मृतं ज्ञात्वा स्वजना भूमौ निक्षिपन्ति स्म, ततश्च विजयसेनो राजा तं पुत्रं तदुःखेन तत्पितरं च मृतं विज्ञाय तद्धनग्रहणाय सुभटान् प्रेषयामास, इतश्च-अष्टमप्रभावात् प्रकम्पितासनो धरणेन्द्रः सकलं तत्स्वरूपं विज्ञाय भूमिस्थं तं बालकं अमृतच्छटया आश्वास्य विप्ररूपं कृत्वा धनं गृह्णतस्तान् निवारयामास, तत् श्रुत्वा राजाऽपि | त्वरितं तत्रागत्योवाच-भो भूदेव ! परम्परागतं इदं अस्माकं अपुत्रधनग्रहणं कथं निवारयसि', धरणोऽवादीत्-| राजन् ! जीवत्यस्य पुत्रः, कथं कुत्रास्तीति राजादिभिरुक्त भूमेस्तं जीवन्तं बालकं साक्षात्कृत्य निधानमिव दर्शयामास, तंतः सर्वैरपि सविस्मयैः स्वामिन् ! कस्त्वं ? कोऽयमिति पृष्टे सोऽवदत्-अहं धरणेन्द्रो नागराजः | कृताष्टमतपसोऽस्य महात्मनःसाहाय्यार्थ आगतोऽस्मि,राजादिभिरुक्तं-स्वामिन् ! जातमात्रेण अनेन अष्टमतपः कथं कृतं?, धरणेन्द्र उवाच-राजन् ! अयं हि पूर्वभवे कश्चिद्वणिकपुत्रो बाल्येऽपि मृतमातृक आसीत्, स च अपरमात्राऽत्यन्तं पीड्यमानो मित्राय स्वदुःख कथयामास, सोऽपि त्वंया पूर्वजन्मनि तपः न कृतं तेनैवं पराभवं लभसे इत्युपदिष्टवान् , तनोऽसौ यथाशक्ति तपोनिरतः आगामिन्यां पर्युषणायां अवश्यं अष्टमं करिष्यामीति मनसि निश्चित्य तृणकुटीरे सुष्वाप, तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनकादग्निकणस्तत्र