________________
चन्दनादा
न कटशलाकोपसर्गः
हैच, एकदाच स्वपादौ प्रक्षालयन्त्यास्तस्याः श्रेष्ठिना स्वयं गृहीतां भूलठद्वेणी निरीक्ष्य मूलानाम्नी श्रेष्टिपत्नी.
गृहस्वामिनी तु इयमेव युवतिर्भाविनी अहं निर्माल्यप्राया इति विषण्णचित्ता तां शिरोमुण्डननिगडक्षेपणपूर्व द्र यन्त्रमध्ये निरुद्धय कापि गता, श्रेष्ठथपि कथमपि चतुर्थे दिने तच्छुद्धिं प्राप्य यन्त्रं उद्घाट्य तां तदवस्था | देहल्यां संस्थाप्य सूर्पकोणे कुल्माषान् अर्पयित्वा निगडभङ्गार्थ लोहकाराकारणाय यावद्गतस्तावद्यदि कोऽपि भिक्षुरागच्छेत्तर्हि दत्त्वा कुल्माषान् भुञ्जे इति चिन्तयन्त्यां तस्यां भगवान् समागतः, साऽपि प्रमुदिता गृहाणेदं प्रभो इति जगौ, ततः स्वामी अभिग्रहे रोदनं न्यून निरीक्ष्य निवृत्तः, ततो वसुमती अहो अस्मिन्नवसरे भगवानागत्य किश्चिदपि अगृहीत्वा निवृत्त इति दुःखतो रुरोद, ततः पूर्णाभिग्रहः स्वामी कुल्माषान् अग्रहीत, अत्र कविः-चंदना सा कथं नाम, बालेति मोच्यते बुधैः । मोक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या ॥१॥ ततः पञ्च दिव्यानि जातानि शक्रः समागतः देवा नन्तुः केशाः शिरसि सञ्जाताः निगडानि च नपुराणि, ततो मातृस्वसुमगावत्या मिलनं, तत्र च सम्बन्धितया वसुधाराधनं आददानं शतानीकं निवार्य चन्दनाज्ञया धनावहाय धनं दत्त्वा वीरस्य प्रथमा साध्वी इयं भविष्यतीत्यभिधाय शक्रस्तिरोदधे । ततः क्रमेण जम्भिका
ग्रामे शको नाट्यविधि दर्शयित्वा इयद्भिर्दिनैर्ज्ञानोत्पत्तिः इत्यकथयत्, ततो मेण्ढिकग्रामे चमरेन्द्रः प्रियं पप्रच्छ, दततः षण्मानिग्रामे स्वामिनो बहिः प्रतिमास्थस्य पार्चे गोपो वृषान् मुक्त्वा ग्राम प्रविष्टः, आगतश्च पृच्छति
देवार्य! क गता वृषभाः ?, भगवता च मौने कृते रुष्टेन तेन स्वामिकर्णयोः कटशलाके तथा क्षिप्ते यथा
AACARRRRRRRRROSARO
ANCIALLOCALCCASC00402-%%%