________________
कल्प.सुबोव्या०६ ॥१०६॥
| एकादशी चतुर्मासी सातप्रश्नोऽभिग्रहश्च ॥१०६॥
आयुः समापयिष्यति, तस्याग्रमहिष्यश्च दीनाननाः शक्राज्ञया स्वभरि अनुजग्मुः । ततः स्वामिनमालम्भिकायां हरिकान्तः श्वेताम्बिकायां हरिस्सहश्च विद्युत्कुमारेन्द्रौ प्रियं प्रष्टुं एतौ, ततः श्रावस्त्यां शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान् , ततो महती महिमप्रवृत्तिः, ततः कौशाम्ब्यां चन्द्रसूर्यावतरणं, वाणारस्यां शको राजगृहे ईशानो मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छन्ति स्म, ततो वैशाल्यां एकादशो वर्षारात्रो (११) ऽभूत् , तत्र भूतः प्रियं पृच्छति, ततः सुसुमारपुरं गतस्तत्र चमरोल्पातः । ततः क्रमेण कौशाम्ब्यां गतः,तत्र शतानीको राजा मृगावती देवी विजया प्रतिहारी वादीनामा धर्मपाठकः सुगुप्तोऽमात्यस्तार्या नन्दा, सा च श्राविका मृगावत्याः वयस्या, तत्र प्रभुणा पौषबहुलप्रतिपदि अभिग्रहो जगृहे, यथा-द्रव्यतः कुल्माषान् सूर्पकोणस्थान क्षेत्रतः एकं पादं देहल्या अन्तः एकं पादं बहिश्च कृत्वा स्थिता कालतो निवृत्तषु भिक्षाचरेषु भावतो राजसुता दासत्वं प्राप्ता मुण्डितमस्तका निगडितचरणा रुदती अष्टमभक्तिंका चेद्दास्यति तदा गृहीष्यामि, इत्यभिगृह्य प्रत्यहं भिक्षायै भ्राम्यति, अमात्या|दयोऽनेकानुपायान् कुर्वन्ति, न त्वभिग्रहः पूर्यते, तदा च शतानीकेन चम्पा भग्ना, तत्र च दधिवाहनभूपभार्या धारिणी तत्पुत्री च वसुमती द्वे अपि केनचित् पदातिना बन्दितथा गृहीते, तत्र च धारिणी त्वां भार्यां करिष्यामीति पत्तिवातया जिह्वाचर्वणेन मृता, ततो वसुमती पुत्रीति समाश्वास्य कौशाम्ब्यां आनीय चतुप्पथे विक्रेतुं स्थापिता, तत्र धनावहश्रेष्ठिना गृहीत्वा चन्दनेति कृताभिधाना पुत्रीत्वेन स्थापिताऽतीव प्रिया
CAMERRORSCORUM