SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ संगमक|. निवसिनं है॥१॥ ततः षण्मासी यावत् अनेषणीयाहारसम्पादनादीन् तत्कृतान् नानाप्रकारान् उपसर्गान् सहमानो भगवान्निराहार एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् ब्रजग्रामगोकुले गोचर्यायां प्रविष्टस्तावत्तित्रापि तत्कृतां अनेषणां विज्ञाय तथैवागत्य बहिः प्रतिमया तस्थौ, ततः स सुराधमः कथमपि अस्खलितं विशुद्धपरिणाम जगदीश्वरं अवधिना विज्ञाय विषण्णमानसोऽपि शक्रभियाऽभिवन्ध सौधर्म प्रति चचाल । खामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमान्नेन प्रतिलाभितो, बसुधारा च निपतिता, इतश्च तावन्तं कालं यावत् सर्वे सौधर्मवासिनो देवा देव्यश्च निरानन्दा निरुत्साहास्तस्थुः, शक्रोऽपि वर्जितगीत| नाट्य एतावतां उपसर्गाणां हेतुर्मत्कृता प्रशंसैवेति महादुःखाक्रान्तचित्तः करकमलविन्यस्तमुखो दीनदृष्टिवि| मनस्कस्तस्थौ, ततश्च भ्रष्टप्रतिज्ञं श्याममुख आगच्छन्तं तं सुराधम निरीक्ष्य शक्रः पराङ्मुखीभूय सुरानित्यूचेहहो सुरा! असौ कमचण्डालः षापात्मा समागच्छति, अस्य दर्शनं अपि महापापाय भवति, अनेनास्माकं बहु अपराद्धं, यदनेनास्मदीयः स्वामी कदर्थितः, अयं पापात्मा यथा अस्मत्तो न भीतस्तथा पातकादपि न भीतः, तदपवित्रोऽसौ दुरात्मा शीघ्र स्वर्गानिर्वास्थतां, इत्यादिष्टैः शक्रसुभटैनिर्दयं यष्टिमुष्टयादिभिस्ताड्यमानः साङ्गुलिमोटनं कृतान् सुरीणां आक्रोशान् सहमानश्चौर इव साशङ्क इतस्ततो विलोकयन् निर्वाणाङ्गार इव निस्तेजा निषिद्धाखिलपरिवार एकाकी अलर्कश्वेव देवलोकान्निष्कासितो मन्दरचूलायां एकसागरावशेष
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy