________________
संगमक|. निवसिनं
है॥१॥ ततः षण्मासी यावत् अनेषणीयाहारसम्पादनादीन् तत्कृतान् नानाप्रकारान् उपसर्गान् सहमानो
भगवान्निराहार एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् ब्रजग्रामगोकुले गोचर्यायां प्रविष्टस्तावत्तित्रापि तत्कृतां अनेषणां विज्ञाय तथैवागत्य बहिः प्रतिमया तस्थौ, ततः स सुराधमः कथमपि अस्खलितं विशुद्धपरिणाम जगदीश्वरं अवधिना विज्ञाय विषण्णमानसोऽपि शक्रभियाऽभिवन्ध सौधर्म प्रति चचाल । खामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमान्नेन प्रतिलाभितो, बसुधारा च निपतिता, इतश्च तावन्तं कालं यावत् सर्वे सौधर्मवासिनो देवा देव्यश्च निरानन्दा निरुत्साहास्तस्थुः, शक्रोऽपि वर्जितगीत| नाट्य एतावतां उपसर्गाणां हेतुर्मत्कृता प्रशंसैवेति महादुःखाक्रान्तचित्तः करकमलविन्यस्तमुखो दीनदृष्टिवि| मनस्कस्तस्थौ, ततश्च भ्रष्टप्रतिज्ञं श्याममुख आगच्छन्तं तं सुराधम निरीक्ष्य शक्रः पराङ्मुखीभूय सुरानित्यूचेहहो सुरा! असौ कमचण्डालः षापात्मा समागच्छति, अस्य दर्शनं अपि महापापाय भवति, अनेनास्माकं बहु अपराद्धं, यदनेनास्मदीयः स्वामी कदर्थितः, अयं पापात्मा यथा अस्मत्तो न भीतस्तथा पातकादपि न भीतः, तदपवित्रोऽसौ दुरात्मा शीघ्र स्वर्गानिर्वास्थतां, इत्यादिष्टैः शक्रसुभटैनिर्दयं यष्टिमुष्टयादिभिस्ताड्यमानः साङ्गुलिमोटनं कृतान् सुरीणां आक्रोशान् सहमानश्चौर इव साशङ्क इतस्ततो विलोकयन् निर्वाणाङ्गार इव निस्तेजा निषिद्धाखिलपरिवार एकाकी अलर्कश्वेव देवलोकान्निष्कासितो मन्दरचूलायां एकसागरावशेष