________________
कल्प.सुबोध्या०६ ॥१०५॥
ACADARASAR
अपि वीरचेतश्चालयितुं असमर्था इति प्रभोः प्रशंसां कृतवान्, तत् श्रुत्वा च अमर्षेण सामानिकः सङ्गमाख्यः सुरः क्षणात्तं चालयामीति शक्रसमक्षं कृतप्रतिज्ञः शीघ्रं प्रभुसमीपं आगत्य प्रथमं धूलिवृष्टिं चकार, यया
संगमोपूर्णाक्षिकर्णादिविवरः स्वामी निरुच्छ्वासोऽभूत् १ ततो बज्रतुण्डपिपीलिकाभिश्चालनीतुल्यश्चक्रे, ताश्चैकतः
सरात पसगा:
॥१०५॥ प्रविशन्ति अन्यतो निर्यान्ति १ तथा वज्रतुण्डा उद्देशाः ३ तीक्ष्णतुण्डा घृतेलिका ४ वृश्चिकाः ५ नकुलाः सर्पाः ७ मूषकाच ८ भक्षणादिना, तथा हस्तिनः ९ हस्तिन्यश्च १. शुण्डाघातचरणमईनादिना पिशाचोऽट्टादृहासादिना ११ व्याघ्रो दंष्टानखविदारणादिना १२ ततः सिद्धार्थविशले करुणाविलापादिना १३ उपसर्गयन्ति, ततः स्कन्धावारविकुवणा, तत्र च जनाः प्रभुचरणयोर्मध्येऽग्नि प्रज्वाल्य स्थालीमुपस्थाप्य पचन्ति १४ ततश्चण्डालास्तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति, ते च मुखैभक्षयन्ति १५ ततः खरपातः पर्वतानपि कम्पयन् प्रभुं उत्क्षिप्य उत्क्षिप्य पातयति १६ ततः कलिकावातश्चक्रवद् भ्रमयति १७ | ततो येन मुक्तेन मेरुचूलाऽपि चूस्यात्तादृशं सहस्रभारप्रमाणं चक्रं मुक्तं, तेन प्रभुराजानु भूमौ निमग्नः १८ ततः प्रभातं विकृत्य वक्ति-देवार्य ! अद्यापि किं तिष्ठसि ?, स्वामी ज्ञानेन रात्रिं वेत्ति १९ ततो देवद्धिं विकुळ |* वृणीष्व महर्षे! येन तव स्वर्गेण मोक्षेण वा प्रयोजनं, तथापि अक्षुब्धं देवाङ्गनाहावभावादिभिः उपसगर्यन्ति २०, एवं एकस्या रात्री विंशत्या उपसर्गस्तेन कृतैः मनागपि न चलितः स्वामी, अत्र कविः-पलं जगध्वंसनरक्षणक्षम, कृपा च सा सङ्गमके कृताऽऽगसि । इतीव सञ्चिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययो
RECRUCAREERICACANCRECRUCIRC