SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ कल्प:मुबोम्या०६ ॥१०३॥ गोशालस्य मांसभक्षणं बलदेवमूर्तिसाहाय्य ॥१३॥ तत्र सिद्धार्थेन गोशालाय प्रोक्तं-यत् अद्यत्वं मनुष्यमांस भौक्ष्यसे, ततः सोऽपितन्निवारणाय वणिग्गेहेषु भिक्षाये बभ्राम, तत्र च पितृदत्तो वणिक तस्य भार्या च मृतापत्यप्रसूरस्ति; तस्याश्च नैमित्तिकशिवदत्तेनोकोऽपत्यजीवनोपायो-यत् तस्य मृतयालकस्य मांसं पायसेन विमिश्रं कस्यचिट्रिक्षोदेयं, तया च तेनैव विधिना गोशालाय दत्तं, गृहज्वालनभयाच गृहद्वारं परावर्तितं, गोशालोऽपि अज्ञातखरूपस्तद्भक्षयित्वा भगवत्समीपमागतः, सिद्धार्थेन यथास्थिते उक्त वमनेन कृतनिर्णयश्च तद्गृहज्वालनाय आगतः, तद्गृहं अलब्ध्वा तं पाटकं एव भगवन्नाम्ना ज्वालितवान् । ततः स्वामी बहिर्दरिद्रसन्निवेशात् ऐरिद्रवृक्षस्य अधः प्रतिमया तस्थौ, पथिकप्रज्वालिताग्रिना अनपसरणात् प्रभोः पादौ दग्धी, गोशालो नष्टः, ततः स्वामी मंगलाग्रामे वासुदेवगृहे प्रतिमया स्थितः तत्र गोशालो डिम्भभापनाय अक्षिविक्रियां कुर्वन् तत्पित्रादिभिः कुहितो मुनिपिशाच इत्युपेक्षितः, ततः स्वामी आवर्तग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितः, ततस्तरिपत्रादयो अथिलोऽयं किमनेन हतेन ? अस्य गुरुरेव हन्यते इति भगवन्तं हन्तुं उद्यतास्तांश्च बलदेवमूर्तिरेव बाहुना लगुलं उत्पाटय न्यवारयत्, ततः सर्वेऽपि स्वामिन नतवन्तः, ततः प्रभुः चोराकसन्निवेशं जगाम, तत्र मण्डपे भोज्य पच्यमानं दृष्ट्वा गोशालः पुनःपुनः न्यग्भूय वेलां विलोकयति स्म, ततस्तैश्चौरशङ्कया ताडितः, अनेनापि रुष्टेन स्वामिनाना स मण्डपो ज्वालितः, ततः प्रभुः कलम्बुकासन्निवेशं गतःतत्र मेघकालहस्तिनामानौ द्वौ भ्रातरौ, तत्र कालहस्तिना उपसर्गितो मेघेनोपलक्ष्य क्षमितः, ततःस्वामी क्लिष्टकर्मनिर्जरानिमित्तं लाढाविषयं प्राप, SPECARROCCASIC
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy