________________
कल्प.सुबो
व्या०
गोशालसमागमःद्वितीया तृतीया च चतु
सी ॥१०२॥
१
०२॥
वायशालैकदेशे अनुज्ञाप्य आयं मासक्षपणे उपसंपद्य तस्थौ, तत्र च मङ्कलिनाममपुत्रः सुभद्राङ्गजो बहुलद्विजगोशालायां जातत्वात् गोशालनामा मङकिशोर उपाययो, म च स्वामिनं मासक्षपणपारणके विजयश्रे|ष्ठिना कूरादिविपुल भोजनविधिना प्रतिलम्भितं तत्र पञ्चदिव्यादिमहिमानं च निरीक्ष्य अहं त्वच्छिष्योऽस्मीति स्वामिन उवाच, ततो द्वितीयपारणायां नन्देन पकान्नादिना ततस्तृतीयायां सुनन्देन परमानादिना स्वामी प्रतिलम्भितः, (२) चतुर्थमासक्षपणे कोल्लागसन्निवेशे भगवानागतः, तत्र बहुलनामा द्विजः पायसेन प्रतिलम्भितवान् , पश्च दिव्यानि च, गोशालश्च तस्यां तन्तुवायशालायां स्वामिनं अनिरीक्ष्य समग्रे राजगृहनगरे |गवेषयन् स्वोपकरणं द्विजेभ्यो दत्त्वा मुखं शिरश्च मुण्डयित्वा कोल्लाके भगवन्तं दृष्ट्वा त्वत्प्रवज्या मम भवतु इत्युक्तवान्, ततस्तेन शिष्येण सह स्वामी सुवर्णग्वलग्राम प्रति प्रस्थितो, मार्गे च गोपैमहास्थाल्यां पायसं पच्यमानं निरीक्ष्य गोशालः स्वामिनं जगौ-अत्र भुक्त्वा गम्यते, सिद्धार्थेन च तद्भङ्गकथने गोशालेन च गोपेभ्यस्तढुंगे ज्ञापिते गोपैयत्नेन रक्षिताऽपि सा स्थाली भग्ना, ततो गोशालेन यद्भाव्यं तद्भवत्येवेति नियतिः स्वीकृता, ततः स्वामी ब्राह्मणग्राममगात्, तत्र नन्दोपनन्दभ्रातृदयसम्बन्धिनौ द्वौ पाटको, स्वामी नन्दपाटके प्रविष्टः प्रतिलम्भितश्च नन्देन, गोशालस्तु उपनन्दगृहे पर्युषितान्नदानेन रुष्टो यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदाऽस्य गृहं दह्यतां इति शशाप, तदनु तद्गृहं आसन्नदेवता ददाह, पश्चात्प्रभुश्चम्पायां उपागतः, तत्र द्विमासक्षपणेन चतुर्मासी (३) अवसत्, चरमद्विमासपारणां च.चम्पायाः बहिः कृत्वा कोल्लागसंनिवेशं गतः
FASSESSORIES