SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ कम्बलशम्बलो त्पत्ति ददाति, सा च यथोचितं मूल्यं ददाति, एवं च कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तया आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः, यदुत भो! आवाभ्यां आगन्तुं न शक्यते, परं यद् भवतां विवाहें युज्यते तदस्मद्गेहाद् ग्राह्य, ततो व्यवहारिदत्तेश्चन्द्रोदयाग्रुपकरणैर्वस्त्राभरणधूपादिभिश्च म आभीरविवाहोऽ. त्यन्तं उत्कृष्टो जाता, तेन प्रमुदिताभ्यां आभीराभीरीभ्यां अतिमनोहरो समानवयसौ बालवृषभौ आनीय तयोदत्तौ, तो नेच्छतः, बलाद् गृहे बद्ध्वा तौ स्वगृहं गतो, व्यवहारिणा चिन्तितं-यदि इमौ पश्चात् प्रेषयिष्यते तदा षण्ढीकरणभारोद्वहनादिभिर्दुःखिनौ भविष्यतः इत्यादि विचिन्त्य प्रासुकतृणजलादिभिस्तो पोष्यमाणो वाह नादिश्रमविवर्जिती सुखं तिष्ठतः, अन्यदा च अष्टम्गदिषु कृतपौषधेन तेन श्रावकेण पुस्तकादि वाच्यमानं निशम्य तौ भद्रकौ जातो, यस्मिन् दिने स श्रावक उपवासं करोति तस्मिन् दिने तौ अपि तृणादि न भक्षयतः, एवं च तस्य श्रावकस्यापि सार्मिकत्वेन अत्यन्तं प्रियौ जातो, एकदा तस्य जिनदासस्य मित्रेण तो अतिवलिष्ठौ सुन्दरी घृषी विज्ञाय श्रेष्ठिनं अनापृच्छयैव भण्डीरवनयक्षयात्रायै अदृष्टधुरौ अपि तथा वाहिती यथा त्रुटितौ, आनीय तस्य गृहे बद्धौ, श्रेष्ठी च तौ तदवस्थौ विज्ञाय माश्रुलोचनो भक्तप्रत्याख्यापननमस्कारदानादिभिर्निर्यामितवान् , ततस्तो मृत्वा नागकुमारी देवी जातो, तयोश्च नवीनोत्पन्नयोर्दत्तोपयोगयोरेकत. रेण नौ रक्षिता, अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ च समहोत्सवं सुरभिजलपुष्पवृष्टिं कृत्वा तो स्वस्थानं गतौ। भगवानपि राजगृहे नालन्दायां तन्तु
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy