________________
ढानि तथोक्तं-घबलु बिसरह सामि। अहं, गरुआं भर पिक्खेवि । हउं किं न जुत्तो दुहिं धुरिहिं, खंडय दुनि करेवि ।। १ ।। स तथाविधेन पराक्रमेण टितसन्धिरशक्तशरीरो जातः, तदा च तं अशक्तं निरीक्ष्य धनदेवेन | वर्धमान ग्रामे गत्वा ग्राममुख्यानां तृणजलनिमित्तं द्रव्यं दत्त्वा स तत्र मुक्तः, ग्राममुख्यैश्च न काचिच्चिन्ता कृता, स च क्षुत्तृवाधितः शुभाध्यवसायान्मृत्वा व्यन्तरो जातः, तेन प्राग्भवव्यतिकरस्मरणाजात कोपेन तत्र मारीकरणेन अनेके ज्वना मारिताः कियतां च संस्कारो भवतीति तथैव मुक्तानां मृतकानां अस्थिनिकरैः स ग्रामः 'अस्थिकग्राम' इति प्रसिद्धो बभूव ततश्च अवशिष्टलोकाराधितेन तेन प्रत्यक्षीभूय स्वप्रामादः स्वप्रतिमा च कारिता, तन्त्र जनाः प्रत्यहं पूजां कुर्वति, भगवांस्तु तत्प्रतिबोधनाय तत्र चत्ये समागतः, दुष्टोऽयं रात्रौ स्वचैत्ये स्थितं व्यापादयतीति जनैर्वीर्यमाणोऽपि तत्रैव रात्रौ स्थितः, तेन च भगवतः क्षोभाय भूमेर्भेदकरोऽट्टहासः कृतः, ततो हस्तिरूपं, ततः सर्परूपं, ततः पिशाचरूपं च विकृत्य दुस्महा उपसर्गाः कृताः, भगवांस्तु मग गपि न क्षुभितः, तत्त एकैकाऽपि या अन्यजीवितापहा तथाविधाः शिरः १ कर्ण२नासिका ३ चक्षु४६न्त पृष्ठ ६ नख, ७लक्षणेष्वङ्गेषु विविध्या वेदनाः प्रारब्धाः, तथापि अकम्पितचित्तं भगवन्तं निरीक्ष्य स प्रतिबुद्धः, अस्मिन्नवसरे च स सिद्धार्थः समागत्योवाच भो निर्भाग्य ! दुर्लक्षण ! शूलपाणे किमेतदाचरितं ? यत्सुरेन्द्रपूज्यस्य भगवत आशातना कृता, यदि शक्रो ज्ञास्यति तदा तव स्थानं स्फेटयिष्यति, ततः पुनर्भीतः सन्नधिकं भगवन्तं पूज
१ धवलो विषीदति स्वामिन्! अहं गुरुकं भारं प्रक्षिप्य । अहे किं न योजितो द्वयोर्धुरोः खण्डे द्वे कृत्वा ॥ १ ॥
शूलपाण्युपसर्गः